अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
DevanagariHindipublished522 पृष्ठ
पृष्ठ 383, कुल 522 में से
संदर्भ में पढ़ेंपृष्ठ 383विज्ञापनम्।
विज्ञापनम्।
❦❧
पुराकाले नरजातिषु भूरिश्रो रोगोपसृष्टदेहेषु तेषां व्याधिशान्त्यर्थं
तदुपायभूतमायुर्वेदचिकित्साशास्त्रं यदा जगदुपकृत्यैकरतैर्महर्षिभिः
समुद्भावितमासीत् तदैव गवाश्वादीनामपि पशूनां व्याध्युपसृष्टदेहानामुप-
कारार्थमश्वचिकित्साशास्त्रं समुद्भावितमासीत्। यथा हि लोकानुरोधात्
तदनुग्रहार्थं स्वनाम्ना प्रसिद्धा मूलसंहिता चरकेण सुश्रुतादिभिश्च सौश्रु-
तादिसंहिता विरचिता आसन्, तथैव वाजिनामनुरोधाच्छाालिहोत्रस्य
महर्षेः स्वनाम्ना प्रसिद्धा शालिहोत्रमित्यायुर्वेदसंहिता(१) स्वजातेरुपकारार्थं
प्रादुरासीदिति। एवमेवाधुनातनविदुषां परामर्श एवात्र प्रमाणम्।
अपिच एवं किल पुरातनी किंवदन्ती लोकेषु गीयते यथादौ भगवान्
शालिहोत्रो महेन्द्रादेशात् सपक्षानश्वानपक्षान् विधाय पश्चाद्भावाद्दुः-
स्थितानां दुःखमभिप्रपन्नानां तेषामेवानुरोधात् वाजिहितार्थमष्टादश-
साहस्रीमश्ववैद्यकसंहितां प्रथमं प्रणीतवानिति। (२)एवमेवास्योत्पत्तौ
नकुलभाषितं प्रमाणम्।
(१) तच्चिकित्सितं तेषां शालिहोत्रप्रभाषितमिति नकुलः।
(२) सपक्षा वाजिनः सर्वे सञ्जाता व्योमचारिणः।
गन्धर्व्वेभ्यो यथाकामं गच्छन्ति च समन्ततः॥
तान् दृष्ट्वा यवसम्पन्नानसन्नान् वाहनेहितान्।
शक्रः प्रोवाच पार्श्वस्थं शालिहोत्रं मुनीश्वरम्॥
नास्त्यसाध्यं मुने किञ्चिद्भवतो भुवनत्रये।
तस्मादाशु कुरुष्व त्वं वाहनार्हान् हयोत्तमान्॥
ये च मे युद्धकालेषु प्रवहन्ति रथं सदा।
अशक्या वारणेन्द्रैश्च दानवैर्व्वलवत्तरैः॥
तेषां पक्षं समुत्कृत्य पक्षच्छेदं व्यधात्तदा।
वाजिनां शक्रवाक्य