अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 385, कुल 522 में से
संदर्भ में पढ़ें[ २ ]
अस्ति किल गान्धारजनपदासन्नवर्त्ति शालातुरं नाम नगरम्। तत्र
शालिहोत्रनामा प्राचीनोग्रवैद्यः प्रादुरासीत्। तेनासौ शालातुर इति
प्रदेशविशेषेणोच्यते इति केषाञ्चिद्विदुषां मतम्। अयमेव शालातुरीयः
पाणिनिरिति केचित्। अन्ये तं धन्वन्तरिमाहुः। परमस्मत्कारणमेवंविधा-
नुमानमिति श्रीडाक्वारराजेन्द्रलालः ॥ *
केचित्तु तदसङ्गतं मन्यमाना एवमाङः-यथा शालिहोत्रः श्रावस्तिनगर-
वासिनोऽश्वघोषाभिधानस्य(१) कस्यचिद्विप्रस्य तनय आसीत् । तथा तस्य
महर्षेराश्रमश्च विदेहभूमिसमासन्नवर्त्तिचम्पकारण्याभिधाने कान्ते, हिम-
वत्पाददेशे आसीदिति। अत्र प्रमाणं शालिहोत्रोद्भवकारकवचनं(२)
समीचीनं प्रतिभाति ।
मत्संस्कृतमिदमश्ववैद्यकं विजयदत्ततनयेन सामन्तोपाधिकेन श्रीमज्जय-
दत्तसूरिणा शालिहोत्राद्यश्ववैद्यकेभ्यः(३) समाकल्य्य विरचितमासीत्।
यस्य रचनाक्रमः शालिहोत्रानुसारोति विज्ञेयम्। परं क्वचित् क्वचित् क्रम-
भङ्गोऽपि पर्यालोचनया दृश्यते। अस्य च रोगादिलक्षणानि क्वचिदवि-
कलशालिहोत्राद्युद्धृतानि क्वचिच्च नानासंग्रहसारसंग्रहनेन खण्डितानि
* Dr. Mitter's Proceeding Asiatic Society Bengal 1885, July.
(१) येन ज्ञानवता हिमालयतरुच्छायासु विक्रीड़ितं
यः जातो हिमपुण्यवातशिशिरे गङ्गाजले पावने।
रेमे यस्तु तुरङ्गयूथजनितैर्नानाविधैर्भाषितैः
पायाद्वः स तुरङ्गघोषतनयः श्रीशालिहोत्रो मुनिः॥ नकुलः॥
(२) जाह्नव्या उत्तरे तीरे प्रालेयाद्रेस्तटान्तरे ।
स्वाश्रमे चम्पकारख्ये वेदिकायां कुशासने ॥
शालिहोत्रं सुखासीनं ऋषिभिः परिवेष्टितम् ।
ब्रह्मसूर्य्यामिततेजसं हयशास्त्रविशारदम् ।
इत्यादि Burnell's Catalogue of S. MSS. Part I.
(३) श्रीशालिहोत्रादिमुनिप्रणीतं, दृष्ट्वाश्वशास्त्रं बहुविस्तरञ्च ।
स्वस्यप्रबोधं सफलं यथार्थं, कृतञ्च तद्वै जयदत्तकेन ॥ इति जयदत्तं ।