सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 347, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 347

[ ११७ ]
अथ षष्टितमोऽध्यायः ।
व्यापल्लक्षणचिकित्सितम् ।
प्रभूतं लवणं यस्य भोजने वाजिनो भवेत् ।
केवलं वा ततश्चास्य¹ व्यापत् सुमहती भवेत् ॥ १ ॥
लवणव्यापदार्त्तस्य स्वेदः श्वासश्च जायते ।
जलावगाहनं शस्तं तस्य कर्द्दमलेपनम् ॥ २ ॥
शर्करोदकपानञ्च हितं तस्मै² प्रकीर्त्तितम् ।
पयोऽनुवासनं वापि³ विशेषेणैव जायते ॥ ३ ॥
लवणव्यापदार्त्तस्य पिष्ट्वालम्बुषया सह ।
आखोद्य तिलतैलेन ततः पानं प्रदापयेत् ।
हरीतकी कुष्ठशृतं दापयेत् पानमुत्तमम् ॥ ४ ॥
बहुभिः खादितैर्धान्यैर्धान्यव्यापदमादिशेत् ।
शूलचिह्नं⁴ ततस्तस्य विह्वलत्वञ्च जायते ॥ ५ ॥
४ । लवणेत्यादि सार्द्धश्लोकः ख-पुस्तके नास्ति । अत्र तिल-
तैलस्य प्रस्थार्द्धं ग्राह्यम् । अलम्बुषायाश्च पलम् ।
५ । धान्यव्यापदं धान्यभक्षणजनितव्याधिमित्यर्थः ।
१ । तस्य व्याधिश्च महती । खः ।
२ । तस्य क्षमाचया । गः ।
३ । क्षीरस्यास्थापनं तस्य । गः ।
४ । शूलं चिह्नं । खः ।