सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 346, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 346

२१८ अश्ववैद्यके [५६ अध्यायः ।
पञ्चभिर्लवणैः साम्लं पाने दद्याद्भिषग्वरः ।
प्राग्नः शोथं ततस्तैश्च मर्दयेद्भिषजां वरः ॥ ३ ॥
भग्नैः शंखकपालाद्यैः स्वेदैस्तं स्वेदयेद्भिषक् १ ।
तैलयुक्तं जलं पाने ग्रासे दूर्व्वाञ्च दापयेत् ॥ ४ ॥
पञ्चमूलकषायेण क्षीरयुक्तेन वस्तयः२।
सुखाय विहितास्तस्य पिप्पलीकल्कयोजिताः ॥ ५ ॥
चैष्टतेन३ च तैलेन कुर्य्यात्तैलानुवासनम्४ ।
अशान्तौ५ वह्निना कर्म्म ततः सम्पाद्यते सुखम् ॥ ६ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे वातवला-
सकचिकित्सिते एकोनषष्टितमोऽध्यायः ॥
———
३ । तैरिति उक्तवसातैलैर्लवणादिमिश्रैरित्यर्थः ।
५ । पञ्चमूलस्य पलदशकम् । क्षीरस्य षाढ़को वस्त्यर्थं ग्राह्यः ।
———
१ । स्वेदैः संसेवयेद्भिषक् । खः ।
२ । वस्तिना । गः ।
३ । तैष्टताद्येन । गः ।
४ । तस्यानुवासनम् । गः ।
५ । असान्तौ । खः ।