अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 345, कुल 522 में से
संदर्भ में पढ़ें५८ अध्यायः ।] वातवलासकविवरणम् । २१५
श्लेष्मशोषातुरं^१ वाहं वीक्ष्य चाग्निवलं बुधः ।
सन्निपातोद्भवे चापि कुर्य्याद् भेषजसङ्करम् ॥ १७॥
चितायां दह्यमानायां तद्धूमेन विचक्षणः ।
धूपयेत् सर्व्वशोषे तु तुरङ्गं शास्त्रकोविदः ॥ १८॥
जलौकसाञ्च रक्तेन कुर्य्यान्नेत्राञ्जनं^२ भिषक् ।
पिष्टाभिः सकलाभिर्वा ताभिः^३ शस्तमथाञ्जनम् ॥ १८॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे शोषेऽष्ट-
पञ्चाशत्तमोऽध्यायः॥
अथ एकोनषष्टितमोऽध्यायः।
वातवलासकलक्षणचिकित्सितम् ।
कफमारुतसम्भूतः स्थूरासन्धिसमाश्रितः ।
शोथो वातवलासाख्यो मृदुश्चैव सवेदनः ॥ १ ॥
तेनातिखञ्जतेऽश्वस्य स्तम्भं पर्व्व च जायते ।
स्थोरकां^४ वेधयेत् सम्यग् वसातैलञ्च सर्पिषा ॥ २ ॥
१। श्लेष्मपित्ताय चाश्वाय । गः ।
२। तेनाञ्जनं । गः ।
३। वातार्ते शस्तमञ्जनम् । गः ।
४। वसातैलञ्च सर्पिंश्च पञ्चभिर्लवणैः सह । क्षते दद्याद् भिषक्
प्रातः स्वच्छस्नेहैश्च मर्दयेत् ॥ गः ।