सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 272, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 272

२५० अश्ववैद्यके [३९ अध्यायः।
प्रधानो गुग्गुलुर्हृष्टस्तथा दाहश्च वाजिनाम् ॥ ३६ ॥
आमर्हकं पाटयित्वा दग्ध्वा तत्क्षणमेव च ।
गुग्गुलुं पाययेत्तावद् यावद्दृढं व्रणं भवेत् ॥ ३७ ॥
माषपर्णीर्यवांश्चैव न दद्यात्तस्य वत्सरम् ।
खादनाय समुद्दिष्टा यवा दूर्व्वा मनीषिभिः ॥ ३८ ॥
आमर्हकविधिः सर्व्वः कर्त्तव्यः पाटनं विना ।
प्रपोटकेऽपि वाह्यस्य हित्वा चैव कदम्बकैः ॥ ३९ ॥
शिलासहशकाठिन्यः शोथो जंघव्‍यवस्थितः ।
अध्यस्थिसंज्ञितं विन्द्यान्मृदुश्चैवापजंघिकम् ॥ ४० ॥
अग्निं दत्वा ततो वैद्यः कुर्य्यादामर्हकक्रियाम् ।
शिरावेधो विशेषेण उपजंघेषु कीर्त्तितः ॥ ४१ ॥
एतेन यदि चारेण क्रियमाणेन शाम्यति ।
पादरोगे तदा वैद्यः कुर्य्यात्कर्म्म पुनः पुनः ॥ ४२ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे पादरोगे
एकोनचत्वारिंशोऽध्यायः ।


३६ । त्रिफलाक्वाथः प्रस्थद्वयमितः । गुग्गुलोश्च पलम् ।
३९ । कदम्बकैरित्यत्र कदम्बकमिति साधु मन्महे । एवं शिला-
सदृशकाठिन्य इत्यादावपि द्वितीयान्तः पाठो भवितुं युक्तः ।
४२ । चारेण उपचारेणेत्यर्थः ।