सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 250, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 250

२९८ अश्ववैद्यके [३४ अध्यायः ।
वंशरोचनया युक्तं चूर्णं गोधूमजं ततः ।
तेन कल्केन संनीय क्षीरेण विधिवत्पचेत् ॥ १२ ॥
ततो गुडेन संयोज्य भोजयेत् सर्पिषा सह ।
घृतेन मधुना युक्तं पायसञ्च प्रदापयेत् ॥ १३ ॥
वार्त्ताकानां फलैः क्वाथः१ शुण्ठीमागधिकान्वितः ।
मूर्च्छितस्तिलतैलेन पाने दत्तः सुखावहः ॥ १४ ॥
मूलकस्य रसश्चैव२ वार्त्ताकक्वाथवद्भिषक् ।
वातिके दापयेत्पानं कासे तैलेन मिश्रितम् ॥ १५ ॥
कुलत्थदर्भमूलन्तु घृतगोमेदसा युतम् ।
धूपोऽनेन३ प्रदातव्यो नासिकाविवरेण तु ॥ १६ ॥
१२-१३ । तेन कल्केन दुरालभादिकल्केन पलमितेनेत्यर्थः ।
वंशलोचनागोधूमचूर्णं मिलितं पलं । क्षीरस्याढको गुडस्य पलाष्टकं
घृतस्य च पलचतुष्टयम् । एतानि एकत्र पक्त्वा भोजयेत् । घृतेन
पलचतुष्टयेन मधुना कुड़वमितेनेत्यर्थः ।
१४ । अत्र क्वाथादिद्रव्यमानं पूर्व्ववत् ज्ञेयम् ।
१५ । मूलकरसस्य प्रस्थार्द्धं वार्त्ताकक्वाथस्य च प्रस्थद्वयं एकत्र
तैलस्य प्रस्थार्द्धेन सह पाययेत् ।
१६ । कुलत्थदर्भचूर्णं मिलित्वा षट्टोलकं घृतगोमेदसोश्च कर्षौ
धूपमाना ।
१। क्वाथं समं मागधिकान्वितम् । गः । ३। धूपस्तेन । गः ।
२। रसे चैव वार्त्ताकं क्वाथयेद्भिषक् । गः ।