सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 249, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 249

३४ अध्यायः ।] कासविवरणम् । २२७
प्रसारयति यो गात्रं१ ग्रीवाञ्चापि विशेषतः ।
कासमानो हयो दीर्घं२ भिन्नरोमा३ऽतिदुर्व्वलः ॥ ७ ॥
दुर्गन्धिपूयसङ्काशं यश्चैव कफमुद्धरेत् ।
तस्य४ विद्याद्बुधः कासं हयस्य क्षतसम्भवम् ॥ ८ ॥
वातकासचिकित्सा ।
वातकासाभिभूतस्य५ पानं दद्याद्विचक्षणः ।
पञ्चमूलकषायेण कृत्वा मांसरसं बुधः ॥ ९ ॥
गोक्षीरं शर्करायुक्तं पिप्पलीनागरान्वितम्६ ।
तिलतैलेन संयोज्य भोजयेल्लवणान्वितम् ॥ १० ॥
दुरालभां कण्टकारीं बृहतीं कटुरोहिणीम् ।
पिष्ट्वा वार्त्ताकुयूषेण तैलसिद्धेन पण्डितः ॥ ११ ॥
९ । पञ्चमूलस्य मिलितं पलं वारिण आढकः । पादावशिष्टः
क्वाथो ग्राह्यः ।
१० । अत्र दुग्धस्य प्रस्थः, शर्करा कुड़वमिता, पिप्पलीशुण्ठ्यो-
र्मिलितं पादोनं पलं, तैलस्य च प्रस्थार्द्धम् ।
११ । दुरालभादीनां पलं। वार्त्ताकूनां शुष्कानां पलं, पाकार्थं
वारि आढकमितं अर्द्धावशिष्टं कार्य्यम् । सन्तलनार्थं तैलस्य च
कुड़वत्रयम् ॥
१ । गात्राणि । गः । ४ । तन्तु विद्याद्बुधः कासं वाहस्य । गः ।
२ । दीनः । गः । ५ । वातकासाभियोज्यस्तु । गः ।
३ । तीक्ष्णरोमा । खः । ६ । पिप्पलीधूमजं ततः । गः ।