अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 164, कुल 522 में से
संदर्भ में पढ़ें१४६ अश्ववैद्यके [१३ अध्यायः।
शिशिरे तोयपानञ्च दद्यादेकं विचक्षणः ।
एवं श्लेष्मा तुरङ्गानां प्रकोपं नैव गच्छति ॥ ६७ ॥
भोजनं वाहनं चैव कुर्य्यादेकान्तरं भिषक्¹ ।
अनुपाने सुरा तेषां भोजितानां प्रकीर्त्तिता ॥ ६८ ॥
सव्योषेण विडङ्गेन हिङ्गुना वचया सह ।
यवानी²शतपुष्पाभ्यां पञ्चभिर्लवणैस्तथा ॥ ६९ ॥
वारुण्याः प्रतिपानन्तु शिशिरे संप्रदापयेत् ।
कायाग्निदीपनं तच्च श्लेष्मदोषनिवारणम् ॥ ७० ॥
शिशिरे गर्भिता देया यवाः स्वस्थाय वाजिने ।
सप्ताहं द्विगुणञ्चैव वाहयेन्नैव बुद्धिमान् ॥ ७१ ॥
ष्ठिकेन । तिलतैलसमेतैरित्यत्र तिलतैलस्य कुडवत्रयं । लवणसंयुक्तै-
रिति लवणस्य कुडवः । माषाणां प्रस्थत्रयं ॥
: ६७ । शिशिरे तोयपानमेकवारं दद्यात् । वारिदानस्य मात्रा
तु चतुर्दश कुडवाः । अनुपाने सुरायाः प्रस्थः ॥
६९-७० । प्रतिपानार्थं व्योषादीनां मिलित्वा चूर्णं पादोनं
पलं सुराप्रस्थेन समालोड्य देयम् ॥ शतपुष्पा (शुल्फा) । “शतपुष्पा
सितच्छत्राऽतितीक्ष्णा मधुरा मिसिः” इत्यमरः । पञ्चलवणानीति
सैन्धवसचक्षसामुद्रविट्सौवर्चलपुलाख्यानि ।
७१ । गर्भिताः (भिजन) ।
१ । वाहनैः कुर्य्यादेकान्तरे भिषग्वरः । खः ॥
२ । पर्वणी । गः