सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 163, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 163

१६ अध्यायः।] शिशिरपोषणविधिः। १४५
माषभक्षस्य वाहस्य यदि स्यात् शूलसम्भवः ।
शूलाध्यायोपदिष्टान्तु तदा कुर्य्याद्भिषक् क्रियाम् ॥६२॥
अप्राप्तौ पर्णमाषाणां दद्यान्माषेण भोजनम् ।
सतैललवणैर्माषैः शालिभिर्यवषष्टिकैः ॥ ६३ ॥
धान्यकं चित्रकं व्योषं लोध्रं लवणमेव च ।
एतानि सुरया सार्द्धं हेमन्ते प्रतिपाययेत् ॥ ६४ ॥
शिशिरपोषणविधिः ।
शिशिरप्रतिपानं तु त्र्यहं दद्याद्विचक्षणः ।
ततश्चाग्निवलं दृष्ट्वा तुरङ्गं भोजयेद्बुधः ॥ ६५ ॥
उत्खिन्नैः फलमाषैस्तु युक्तैः काञ्जिकमात्रया ।
तिलतैलसमेतैश्च तथा लवणसंयुतैः ॥ ६६ ॥
६३ । पर्णमाषाणामिति पत्रसहितमाषकलायानामित्यर्थः ।
माषेण सह सतैललवणैः शालिभिर्वा यवैः षष्टिकै र्वा भोजनं दद्यात् ।
अत्र माषेणेति प्रामादिकः पाठः । मांसेनेति युक्तं पाठं प्रतीमः ।
अत्र माषाणां ३ प्रस्थाः । तिलतैलं कुडवत्रयं । लवणस्य च कुडवः ।
६४ । अत्र प्रतिपानं सुराप्रस्थेन धान्याकादीनां मिलित्वा पादोनं
पलं समालोड्य पाययेत् । प्रतिपाने तीक्ष्णद्रव्यपादहीनदानविधा-
नात् ॥ व्योषं शुण्ठी पिप्पली मरिचञ्च । उक्तञ्च,—“विडङ्गपिप्पली-
धान्यशताह्रालोध्रसैन्धवैः । सचित्रकैस्तुरङ्गानां प्रतिपानं हिमागमे” ॥
६६ । उत्खिन्नैर्भर्ज्जितैः । काञ्जिकमात्रया स्वल्पमात्रेण का-
19