अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 162, कुल 522 में से
संदर्भ में पढ़ें१४४ अश्ववैद्यके [१५ अध्यायः ।
दिनत्रयं न दातव्यं प्रारम्भे तूदकं१ बुधैः ।
एकान्तरं ततो देयं यावत्पूर्णं दिनाष्टकम् ॥५६ ॥
ततः प्रतिदिनं देयमेकवारं यथेच्छया ।
सकले चैव हेमन्ते विधिरेष जलं प्रति ॥ ५७ ॥
पुष्पिते वारुणी शस्ता लवणेन समन्विता ।
सतैललवणा चापि फलिते संप्रकीर्त्तिता ॥ ५८ ॥
सुराया न प्रयोगस्तु सायाह्ने परिकीर्त्तितः ।
यामिनीप्रहरेऽतीते माषान् दद्यात् सकाञ्जिकान्२॥५६॥
तृतीये समकेऽतीते ततोऽश्वान् दापयेद्बुधः ।
एकान्तरं यथा तेषां श्रमः स्वेदश्च जायते ॥ ६० ॥
यावन्नो पाकमायाति तावन्माषा हिताः स्मृताः ।
कठिना नैव दातव्या सर्व्वदैव विजानता ॥ ६१ ॥
हिमागमे आदौ सुखवसिना श्लेष्ममवचारयेत् । ततस्तालु-
शिरावेधः । ततश्च धान्याकादिभिः प्रतिपानं दत्वा पुष्पितानि माष-
तृणानि आहारार्थं दद्यात् । जलदाने तु प्रथमं दिनत्रयं जलदानस्य
एकान्ततो निषेधः । ततो दिनाष्टकं एकदिनानन्तरं दत्वा ततः प्रति-
दिनमेकवारस्य विधिः ।
१ । प्रारम्भादुदकम् । खः ।
२ । माषं दद्यात् सकाञ्जिकम् । गः ।