सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 160, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 160

१४२ अश्ववैद्यके [१३ अध्यायः।
अग्रमाल्याग्रगन्धैश्च¹ भोजनाद्यै²स्तथैव च ।
गृहागतेषु वाहेषु अर्घं दद्यान्नराधिपः ॥ ४३ ॥
अर्चितेषु³ ततो वैद्यः कर्णे जापमिदं जपेत् ।
कीर्त्तितं मुनिभिः पूर्व्वं वाजिशास्त्रार्थवेदिभिः ॥४४॥
पूर्व्वं देवमयो त्वं हि स्मर जातिं हयोत्तम ।
सर्व्वे जना त्वया रक्ष्या रणे भर्त्तुश्च वाहक⁴ ॥ ४५ ॥
कर्णजापं भिषक्कृत्वा यथास्थानं ततो हयान् ।
स्थापयेत् कृतमङ्गल्यान् हृष्टान् कल्मषवर्जितान् ॥४६॥
नार्चये⁵ज्जलजैः पुष्पैर्वाह्नार्थविधिं प्रति ।
सौगन्धिकविशेषेण तेषां दद्याच्च⁶ सर्व्वदा ॥ ४७ ॥
दत्वा तिक्तं घृतं पूर्व्वं कार्त्तिके वेधयेच्छिराम् ।
औरसीं पोचिकीं मन्यां कूर्च्चजां कोष्ठजां ततः ॥ ४८ ॥
आसां मध्ये यथायोगमेकां द्वे वापि वेधयेत् ।
प्रतिपानं ततो दद्यादुत्तमं वक्ष्यमाणकम् ॥ ४९ ॥
मञ्जिष्ठा मधुकं पुष्यं प्रियङ्गुस्त्रायमाणकम् ।
एलाच पिप्पलीचैव तथा कटुकरोहिणी ॥ ५० ॥

४८ । आश्विनोपचारमुक्ता कार्त्तिकोपचारमाह दत्वेति ।

१ । अग्रमाला । खः । २ । भोजनानि । खः ।
३ । अञ्चितेषु । खः ।
४ । सर्व्वेभ्यस्तु त्वयारक्ष्यो रणे भर्त्तुः सखा भव । खः ।
५ । अर्चयेत् । ग० । ६ । दद्यान्न । खः ।