सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 119, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 119

१० अध्यायः ।] क्षीरशुद्धिविवरणम् । १०१
जम्बूंकषायं क्षौद्रेण मिश्रितं पाययेद्धयीम् ।
पञ्चवल्कलमादाय क्षालितं जर्जरीकृतम् ॥ १३ ॥
वारिणा साधयेद्वैद्यो रात्र्युषितञ्च कारयेत् ।
प्रभाते१ दापयेदश्वां शर्करामधुमिश्रितम् ॥ १४ ॥
अजाजी भद्रमुस्ता च शृङ्गवेरञ्च सर्षपम् ।
तुम्बुरूणि विड़ङ्गानि चित्रकं देवदारु च ॥ १५ ॥
पिप्पली च हरिद्रे द्वे पाठां शिग्रुञ्च पेषयेत्२ ।
कल्कं सौवीरकेणैव सन्नीय प्रतिभोजयेत् ॥ १६॥
१३ । जम्बूकषायं क्षौद्रेणेति । अत्र जम्बूत्वक् पलपरिमिता । पा-
कार्थं जलं आढकपरिमितं । पादशेषं कृत्वा प्रस्थद्वयं मधुनः कुड़वं
प्रक्षिप्य च पाययेत्॥ तथा पञ्चवल्कलं न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसानां
त्वचः पलपरिमिताः पूर्ववत् जलेन साधयित्वा दापयेत् । जर्जरीकृतं
कुट्टितमित्यर्थः । “न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । सर्वैरेकत्र-
संयुक्तैः पञ्चवल्कलमुच्यते”—इति निघण्टुः । तत्र प्रक्षेपश्च शर्करा
मधु चेति तयोः प्रत्येकं कुड़वो देयः ॥ अजाजीत्यादि एषां समभागेन
पलं गृहीत्वा दृषदि संपिष्य प्रस्थपरिमितकाञ्जिकेन घोलयित्वा दद्यात् ।
अजाजीं जीरकं तुम्बरुः धन्याकं । हरिद्रे इति हरिद्रा दारुहरिद्रा
च । पाठा अविद्धकर्ण ( आकनादि ) इति यस्या भाषा ।
शिग्रुः शोभाञ्जनं । ( साज्ने ) ॥
१ । प्रसृतं । खः । २ । एषां सर्व्वञ्च । गः ।