अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 118, कुल 522 में से
संदर्भ में पढ़ें१०० अश्ववैद्यके [१० अध्यायः ।
चतुर्थे दिवसे प्राप्ते तोयं चैव शृतं पिवेत् ।
तदा १ न मुच्यते योन्या फेनं गर्भोदकन्तु वा ॥ ९ ॥
यस्माद्विमुक्तगर्भायाः कोष्ठे वायुरुदीर्य्यते ।
तस्माद् घृतं प्रदातव्यं प्रह्वतायां २ विजानता ॥ १० ॥
यवाः ३ सर्व्वे हिता दूर्व्वा यावकं सर्पिषा सह ।
दशमेऽहनि संप्राप्ते सवत्सां स्नपयेद्धयीम् ॥ ११ ॥
गन्धाद्यैः पूजयेत् पुष्पैर्गन्धधूपैश्च धूपयेत् ।
क्षीरशोधनम् ॥
अथ दुष्टस्य वक्ष्यामि क्षीरस्य परिशोधनम् ॥ १२ ॥
९ । चतुर्थ इति । शृतं तोयं पक्वं जलम् ।
१० । तस्मादिति । अत्र पानार्थे घृतं चतुःपलं देयम् । उक्तञ्च
“चतुः पलं घृतं देयं लेहे पाने च भोजने” । इति ।
११ । यवा इति । यवदानपरिमाणं तावदेकदिने आढ़कचतुष्टयं ।
एतदुत्तमस्य । मध्यमादीनान्तु उत्तमपरिमाणात् पादहीनं कनीयसस्तु
सार्द्धहीनं ज्ञेयम् । एवं द्रव्यमात्रायां जयदत्तेन वर्णितं द्रष्टव्यम् ॥
यावकमित्यादि । सर्पिषा कुड़वत्रयमितेनेत्यर्थः । यावकं कुलत्थं
आढ़कद्वयं दद्यात् ।
१ । यदा । खः । २ । प्रसूतायाः । गः ।
३ । यवार्थे हितां दूर्व्वाम् । खः ।