सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 120, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 120

१०२ अश्ववैद्यके [१० अध्यायः ।
गुड़तैलसमायुक्तां तीक्ष्णां वा पाययेत् सुराम् ।
दुष्टस्य शोधना योगा क्षीरस्यैते विवर्द्धनाः ॥ १७॥
किशोरोपचारप्रकरणम् ।
क्षौद्रञ्च नवनीतञ्च मिश्रितं¹ लेहयेच्छिशुम् ।
मासमेकं किशोरन्तु ततो भोजनमाचरेत् ॥ १८॥
गोधूमान्नं यवान्नञ्च सुसिद्धं पयसान्वितम् ।
मधुसर्पिःसमायुक्तं किशोराणां प्रशस्यते ॥ १६॥
तक्रं² वा घृतसंयुक्तं मधुक्षीरविमिश्रितम् ।
पाययेच्च किशोरांस्तु सद्योबलविवर्द्धनम् ॥ २०॥
एवं किशोरा वर्द्धन्ते बलवन्तो भवन्ति च ।
१७। गुड़ेति । इदं प्रतिपानं तीक्ष्णसुराप्रस्थेन गुड़तैल्योः
प्रत्येकं यथाक्रमं प्रस्थार्द्धं पळाष्टकं च मिश्रयित्वा योजनीयमित्यर्थः ।
“स्तन्यरक्तचयहिता सुरा बृंहणदीपनी”—इति सुश्रुतम् ॥
१८। अत्र किशोरोपचारप्रकरणे अन्नपानादिकं सर्व्वमेव साधा-
रणवत् केवलं मात्राया विशेषोऽस्तीति बोध्यम् ॥ अत्र क्षौद्रं कुड़वांशं
नवनीतञ्च पलं एकत्र शिशोर्लेहने देयम् । द्रव्यमात्राध्याये तेषां
उत्तमेभ्यः सर्वद्रव्याणां पादव्यवस्थाया उक्तत्वात् तथा परिमाणं
योज्यम् ॥
१ । मिश्रित्वा । गः ।
२ । शक्तवो घृतसंयुक्ता मधुक्षीरविमिश्रिताः । गः ।