सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 117, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 117

१० अध्यायः ।] सूतिकोपचारविवरणम् । ६६
एवं विमुच्यते गर्भो जरायूंषि पतन्ति च ।
प्रतिपानैस्ततः कोष्ठं शोधयेद्वक्ष्यमाणकैः ॥ ६ ॥
सीधुर्मधु¹त्रिकटुकैः पूर्वाह्णे पाययेद्धयीम् ।
पैष्टिकीं वा सुरां दद्याद् गुड़तैलेन संयुताम् ॥ ७ ॥
अश्वायै दापयेद् ग्रासं सुजीर्णे प्रतिपानके ।
ततो न पाययेत् क्षीरमेकरात्रं चिकोनिधिः ॥ ८ ॥
षष्टिपलमतेनेत्यर्थः । उक्तञ्च जयदत्तेन,—“विंशतिस्त्रिगुणास्यैव वारि-
मानं प्रकीर्तितम्”—इति ॥
६ । प्रतिपानैरिति । ततो वक्ष्यमाणैः प्रतिपानैः पानयोगैः कोष्ठं
शोधयेत् कोष्ठजाड्यमपनयेदित्यर्थः ॥
७। प्रतिपानयुगलमाह । सीध्विति । अत्र त्रिकटुकं समभागं
मिलित्वा पलं ग्राह्यम् । “मरिचस्य च शुण्ठ्याश्च पिप्पलीनां
तथैव च । एतन्त्रिकटुकं प्रोक्तं व्योषाख्यं त्र्यूषणं तथा”—इति ॥
सीधुः मधूकपुष्पोत्थः सुराविशेषः । तदुक्तं सुश्रुते । “सीधुर्मधूकपु-
ष्योत्थो विदाह्यग्निवलप्रदः । रूक्षः कषायकफहृद् वातपित्तप्रको-
पनः”—इति ॥ तस्य प्रस्थः । तथा मधुनश्च कुड़वः । सर्व्वमेकत्र
मेलयित्वा पूर्वाह्णे पाययेदित्यर्थः । द्वितीयं योगं कथयति । पैष्टि-
कीमिति । गुड़तैलेन संयुक्तां पैष्टिकीं सुरां दद्यात् । अत्र पैष्ट Roll
प्रस्थः । गुड़स्य पलाष्टकं । तैलस्य च कुड़वः प्रस्थार्द्धं वा ॥
८। चिकोनिधिरिति पाठो न लगति ॥
१। सीधुना त्रिकटुकेश्च । गः ।