सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 116, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 116

[ ९८ ]
अथ दशमोऽध्यायः ।
सूतिकोपचारः ।
गर्भन्तु निर्गतं ज्ञात्वा वारिणा परिषेचयेत् ।
ऋतुं¹ विज्ञाय मतिमान् शीतेष्णोन च वा पुनः ॥ १॥
अथ मातुः स्तनौ धौतौ पाययेत् परिगृह्य तम्² ।
विलम्बेषु च गर्भेषु जरायुषु पतत्सु च ॥ २ ॥
समान्येतानि मेधावी भेषजान्युपकल्पयेत् ।
ज्योतिष्मती तेजवती शङ्खपुष्पी शतावरी ॥ ३ ॥
भार्गी वचा विशल्या च तथा लाङ्गलिकापि च ।
एतत् संहृत्य संभारं ग्रन्थयेत् सर्षपैः सह ॥ ४ ॥
ततः शिरसि कण्ठे च पुच्छे चाप्युपयोजयेत् ।
लाङ्गलीविश्वशुण्ठीनां चूर्णं तोयेन पाययेत् ॥ ५ ॥
३-४ । ज्योतिष्मती (मालकांगनी) । तेजवती गजपिप्पली ।
शंखपुष्पी चोरपुष्पी (चोरकाच्कि) । शतावरी (शतमूली) । भार्गी
(बामनहाटी) । वचा (वच) । विशल्या दन्ती गुड़ची वा । लाङ्ग-
लिका (ईषलाङ्गुले) ।
५ । तत इति । लाङ्गली (ईषलाङ्गुले) । विश्वः प्रसिद्धः । तथा
शुण्ठी च । आसां द्रव्यत्रयाणां चूर्णं समभागेन मिलितं पलं तोयेन
१ । ज्ञातुं । खः । २ । परिमृह्यते । गः ।