अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 115, कुल 522 में से
संदर्भ में पढ़ें९ अध्यायः ।] गर्भज्ञानविवरणम् । ६७
गर्भोपलिप्तपार्श्वा च बड़वा गर्भिणी मता ।
शरीरोपचयः शोभानिर्वृत्ति र्गतिमन्दता१ ॥ ६ ॥
श्वासः२ स्वल्पाशनत्वञ्च शरीरस्य च पुष्टता ।
स्निग्धता चैव रोमाणां घनरन्ध्रत्वमेव३ च ॥ ७ ॥
क्षान्ता दान्ता प्रशान्ता च वृषं नेच्छति गर्भिणी ।
प्रथमे च द्वितीये च मांसशोभा प्रजायते ॥ ८ ॥
तृतीये च चतुर्थे च पक्वमांसञ्च वर्द्धयेत् ।
पञ्चमे चैव षष्ठे च त्वचि रोमं प्रसीदति ॥ ९ ॥
सप्तमे वाष्टमे मासे योनिः सम्पद्यते पृथुः ।
पादाः श्वूयन्ति नवमे तस्याधस्ताति४वर्द्धते ॥ १० ॥
दशमे चैकादशे वा५ द्वादशे वा प्रसूयते ।
एवं नानाविधैर्ज्ञेया गर्भिणी ह्यकोविदैः ॥ ११ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे गर्भज्ञाने
नवमोऽध्यायः ।
१०। पादाः श्वूयन्ति स्फीता भवन्ति ।
१ । द्यतिमन्दता । गः ।
२ । श्वासाल्यं वामनत्वञ्च । गः ।
३ । घनता रन्ध्र एव च । गः ।
४ । मास्यधः । गः ।
५ । चैव । गः ।
13