अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
६. षष्ठोऽध्यायः (प्रक्रिया, स्वर एवं सन्धि पाद १-४)
सप्तमाध्याये तृतीयः पादः ७५
७३ यमरमनमातां सक् च।
७४ स्मिपूङ्रञ्ज्वशां सनि।
७५ किरश्च पञ्चभ्यः।
७६ रुदादिभ्यः सार्वधातुके।
७७ ईशः से।
७८ ईडजनोध्वे च।
७९ लिङः सलोपोऽनन्त्यस्य।
८० अतो येयः।
८१ आतो ङितः।
८२ आने मुक्।
८३ ईदासः।
८४ अष्टन आ विभक्तौ।
८५ रायो हलि।
८६ युष्मदस्मदोर्नादेशे।
८७ द्वितीयायां च।
८८ प्रथमायाश्च द्विवचने
भाषायाम्।
८९ योऽचि।
९० शेषे लोपः।
९१ मपर्यन्तस्य।
९२ युवावौ द्विवचने।
९३ यूयवयौ जसि।
९४ त्वाहौ सौ।
९५ तुभ्यमह्यौ ङयि।
९६ तवममौ ङसि।
९७ त्वमावेकवचने।
९८ प्रत्ययोत्तरपदयोश्च।
९९ त्रिचतुरोः स्त्रियां तिसृचतसृ।
१०० अचि र ऋतः।
१०१ जराया जरसन्यतरस्याम्।
१०२ त्यदादीनामः।
१०३ किमः कः।
१०४ कु तिहोः।
१०५ क्वाति।
१०६ तदोः सः सावनन्त्ययोः।
१०७ अदस औ सुलोपश्च।
१०८ इदमो मः।
१०९ दश्च।
११० यः सौ।
१११ इदोऽय्पुंसि।
११२ अनाप्यकः।
११३ हलि लोपः।
११४ मृजेर्वृद्धिः।
११५ अचो ञ्णिति।
११६ अत उपधायाः।
११७ तद्धितेष्वचामादेः।
११८ किति च।
--०--
तृतीयः पादः
१ देविकाशिंशपादित्यवाड्-
दीर्घसत्रश्रेयसामात्।
२ केकयमित्रयुप्रलयानां
यादेरियः।
७६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
३ न स्वाभ्यां पदान्ताभ्यां पूर्वौ
तु ताभ्यामैच्।
४ द्वारादीनां च।
५ न्यग्रोधस्य च केवलस्य।
६ न कर्मव्यतिहारे।
७ स्वागतादीनां च।
८ श्वादेरिरिञ्।
९ पदान्तस्यान्यतरस्याम्।
१० उत्तरपदस्य।
११ अवयवाद् ऋतोः।
१२ सुसर्वार्द्धाज्जनपदस्य।
१३ दिशोऽमद्राणाम्।
१४ प्राचां ग्रामनगराणाम्।
१५ सङ्ख्यायाः संवत्सरसङ्ख्यस्य च।
१६ वर्षस्याभविष्यति।
१७ परिमाणान्तस्यासञ्ज्ञाशाणयोः।
१८ जे प्रोष्ठपदानाम्।
१९ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च।
२० अनुशतिकादीनां च।
२१ देवताद्वन्द्वे च।
२२ नेन्द्रस्य परस्य।
२३ दीर्घाच्च वरुणस्य।
२४ प्राचां नगरान्ते।
२५ जङ्गलधेनुवलजान्तस्य
विभाषितमुत्तरम्।
२६ अर्द्धात्परिमाणस्य पूर्वस्य तु वा।
२७ नातः परस्य।
२८ प्रवाहणस्य ढे।
२९ तत्प्रत्ययस्य च।
३० नञः शुचीश्वरक्षेत्रज्ञ-
कुशलनिपुणानाम्।
३१ यथातथयथापुरयोः पर्यायेण।
३२ हनस्तोऽचिण्णलोः।
३३ आतो युक्चिण्कृतोः।
३४ नोदात्तोपदेशस्य
मान्तस्यानाचमेः।
३५ जनिवध्योश्च।
३६ अर्त्तिह्रीव्लरीक्नूयीक्ष्माय्यातां
पुङ्णौ।
३७ शाच्छासाह्व्यावेपां युक्।
३८ वो विधूनने जुक्।
३९ लीलोर्नुग्लुकावन्यतरस्यां
स्नेहविपातने।
४० भियो हेतुभये षुक्।
४१ स्फायो वः।
४२ शदेरगतौ तः।
४३ रुहः पोऽन्यतरस्याम्।
४४ प्रत्ययस्थात्कात्पूर्वस्यात
इदाप्यसुपः।
४५ न यासयोः।
४६ उदीचामातः स्थाने
यकपूर्वायाः।
४७ भस्त्रैषाजाज्ञाद्वास्वा
नञ्पूर्वाणामपि।
सप्तमाध्याये तृतीयः पादः [Page: ७७]
[वाम-स्तम्भः]
४८ अभाषितपुंस्काच्च।
४९ आदाचार्याणाम्।
५० ठस्येकः।
५१ इसुसुक्तान्तात्कः।
५२ चजोः कु घिण्ण्यतोः।
५३ न्यङ्क्वादीनां च।
५४ हो हन्तेर्णिन्नेषु।
५५ अभ्यासाच्च।
५६ हेरचङि।
५७ सन्लिटोर्जेः।
५८ विभाषा चेः।
५९ न क्वादेः।
६० अजिव्रज्योश्च।
६१ भुजन्युब्जौ पाण्युपतापयोः।
६२ प्रयाजानुयाजौ यज्ञाङ्गे।
६३ वज्र्येर्गतौ।
६४ ओक उचः के।
६५ ण्य आवश्यके।
६६ यजयाचरुचप्रवचर्चश्च।
६७ वचोऽशब्दसञ्ज्ञायाम्।
६८ प्रयोज्यनियोज्यौ शक्यार्थे।
६९ भोज्यं भक्ष्ये।
७० घोर्लोपो लेटि वा।
७१ ओतः श्यनि।
७२ क्सस्याचि।
७३ लुग्वा दुहदिहलिहगुहामात्मने-
पदे दन्त्ये।
[दक्षिण-स्तम्भः]
७४ शमामष्टानां दीर्घः श्यनि।
७५ ष्ठिवुक्लमुचां शिति।
७६ क्रमः परस्मैपदेषु।
७७ इषुपगमियमां छः।
७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्त्ति-
सर्त्तिशदसदां पिबजिघ्रधम-
तिष्ठमनयच्छपश्यर्च्छधौ-
शीयसीदाः।
७९ ज्ञाजनोर्जा।
८० प्वादीनां ह्रस्वः।
८१ मीनातेर्निगमे।
८२ मिदेर्गुणः।
८३ जुसि च।
८४ सार्वधातुकार्धधातुकयोः।
८५ जाग्रोऽविचिण्णल्ङित्सु।
८६ पुगन्तलघूपधस्य च।
८७ नाभ्यस्तस्याचि पिति
सार्वधातुके।
८८ भूसुवोस्तिङि।
८९ उतो वृद्धिलुकि हलि।
९० ऊर्णोतेर्विभाषा।
९१ गुणोऽपृक्ते।
९२ तृणह इम्।
९३ ब्रुव ईट्।
९४ यङो वा।
९५ तुरुस्तुशम्यमः सार्वधातुके।
९६ अस्तिसिचोऽपृक्ते।
७८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
९७ बहुलं छन्दसि।
९८ रुदश्च पञ्चभ्यः।
९९ अङ् गार्ग्यगालवयोः।
१०० अदः सर्वेषाम्।
१०१ अतो दीर्घो यञि।
१०२ सुपि च।
१०३ बहुवचने झल्येत्।
१०४ ओसि च।
१०५ आङि चापः।
१०६ सम्बुद्धौ च।
१०७ अम्बार्थनद्योर्ह्रस्वः।
१०८ ह्रस्वस्य गुणः।
१०९ जसि च।
११० ऋतो ङिसर्वनामस्थानयोः।
१११ घेर्ङिति।
११२ आण्नद्याः।
११३ याडापः।
११४ सर्वनाम्नः स्याड् ह्रस्वश्च।
११५ विभाषा द्वितीया-
तृतीयाभ्याम्।
११६ ङेराम्नद्याम्नीभ्यः।
११७ इदुद्भ्याम्।
११८ औदौच्च घेः।
११९ आङो नाऽस्त्रियाम्।
--०--
चतुर्थः पादः
१ णौ चङ्युपधाया ह्रस्वः।
२ नागलोपिशास्वृदिताम्।
३ भ्राजभासभाषदीपजीव-
मीलपीडामन्यतरस्याम्।
४ लोपः पिबतेरीच्
चाभ्यासस्य।
५ तिष्ठतेरित्।
६ जिघ्रतेर्वा।
७ उश्चैत्।
८ नित्यं छन्दसि।
९ दयतेर्दिगि लिटि।
१० ऋतश्च संयोगादेर्गुणः।
११ ऋच्छत्यृताम्।
१२ शॄदृप्रां ह्रस्वो वा।
१३ केऽणः।
१४ न कपि।
१५ आपोऽन्यतरस्याम्।
१६ ऋद्दृशोऽङि गुणः।
१७ अस्यतेस्थुक्।
१८ श्वयतेरः।
१९ पतं पुम्।
२० वच उम्।
२१ शीङः सार्वधातुके गुणः।
२२ अयङ् यि क्ङिति।
२३ उपसर्गाद् ह्रस्व ऊहतेः।
२४ एतेर्लिङि।
२५ अकृत्सार्वधातुकयोर्दीर्घः।
२६ च्वौ च।
सप्तमाध्याये चतुर्थः पादः ७९
२७ रीङ् ऋतः। | ५१ रि च।
२८ रिङ् शयग्लिङ्क्षु। | ५२ ह एति।
२९ गुणोऽर्तिसंयोगाद्योः। | ५३ यीवर्णयोर्दीधीवेव्योः।
३० यङि च। | ५४ सनि मीमाघुरभलभशक-
३१ ई घ्राध्मोः। | पतपदामच इस्।
३२ अस्य च्वौ। | ५५ आप्ज्ञप्यृधामीत्।
३३ क्यचि च। | ५६ दम्भ इच्च।
३४ अशनायोदन्यधनाया | ५७ मुचोऽकर्मकस्य गुणो वा।
बुभुक्षापिपासागर्धेषु। | ५८ अत्र लोपोऽभ्यासस्य।
३५ नच्छन्दस्यपुत्रस्य। | ५९ ह्रस्वः।
३६ दुरस्यूर्द्रविणस्यूर्वृषण्यति | ६० हलादिः शेषः।
रिषण्यति। | ६१ शर्पूर्वाः खयः।
३७ अश्वाघस्यात्। | ६२ कुहोश्चुः।
३८ देवसुम्नयोर्यजुषि काठके। | ६३ न कवतेर्यङि।
३९ कव्यध्वरपृतनस्यर्चि लोपः। | ६४ कृषेश्छन्दसि।
४० द्यतिस्यतिमास्थामिति | ६५ दधर्तिदर्धर्तिदर्धर्षिबोभूतु-
किति। | तेतिक्तेऽलर्ष्यापनीफणत्-
४१ शाच्छोरन्यतरस्याम्। | संसनिष्यदत्करिक्रत्कनिक्रदद्-
४२ दधातेर्हिः। | भरिभ्रदद्विदध्वतोदविद्युतत्-
४३ जहातेश्च क्त्वि। | तरित्रतःसरीसृपतंवरीवृजन्-
४४ विभाषा छन्दसि। | मर्मृज्यागनीगन्तीति च।
४५ सुधितवसुधितनेमधितधिष्व- | ६६ उरत्।
धिषीय च। | ६७ द्युतिस्वाप्योः सम्प्रसारणम्।
४६ दो दद् घोः। | ६८ व्यथो लिटि।
४७ अच उपसर्गात्तः। | ६९ दीर्घ इणः किति।
४८ अपो भि। | ७० अत आदेः।
४९ सः स्यार्धधातुके। | ७१ तस्मान्नुड् द्विहलः।
५० तासस्त्योर्लोपः। |
८० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
७२ अश्नोतेश्च।
७३ भवतेरः।
७४ ससूवेति निगमे।
७५ निजां त्रयाणां गुणः श्लौ।
७६ भृञामित्।
७७ अर्तिपिपर्त्योश्च।
७८ बहुलं छन्दसि।
७९ सन्यतः।
८० ओः पुयण्ज्यपरे।
८१ स्रवतिशृणोतिद्रवतिप्रवति-
प्लवतिच्यवतीनां वा।
८२ गुणो यङ्लुकोः।
८३ दीर्घोऽकितः।
८४ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकस-
पतपदस्कन्दाम्।
८५ नुगतोऽनुनासिकान्तस्य।
८६ जपजभदहदशभञ्जपशां च।
८७ चरफलोश्च।
८८ उत्परस्यातः।
८९ ति च।
९० रीगृदुपधस्य च।
९१ रुग्रिकौ च लुकि।
९२ ऋतश्च।
९३ सन्वल्लघुनि चङ्परेऽनग्लोपे।
९४ दीर्घो लघोः।
९५ अत्स्मृहृत्वरप्रथप्रदस्तु-
स्पशाम्।
९६ विभाषा वेष्टिक्षेप्योः।
९७ ई च गणः।
अष्टमोऽध्यायः
प्रथमः पादः
१ सर्वस्य द्वे।
२ तस्य परमाम्रेडितम्।
३ अनुदात्तं च।
४ नित्यवीप्सयोः।
५ परेर्वर्जने।
६ प्रसमुपोदः पादपूरणे।
७ उपर्यध्यधसः सामीप्ये।
८ वाक्यादेरामन्त्रितस्यासूया-
सम्मतिकोपकुत्सनभर्त्सनेषु।
९ एकं बहुव्रीहिवत्।
१० आबाधे च।
११ कर्मधारयवदुत्तरेषु।
१२ प्रकारे गुणवचनस्य।
१३ अकृच्छ्रे प्रियसुखयोरन्य-
तरस्याम्।
अष्टमाध्याये प्रथमः पादः ८१
१४ यथास्वे यथायथम्। ३६ यावद्यथाभ्याम्।
१५ द्वन्द्वं रहस्यमर्यादावचन- ३७ पूजायां नानन्तरम्।
व्युत्क्रमणयज्ञपात्रप्रयोगाभि- ३८ उपसर्गव्यपेतं च।
व्यक्तिषु। ३९ तुपश्यपश्यताहैः पूजायाम्।
१६ पदस्य। ४० अहो च।
१७ पदात्। ४१ शेषे विभाषा।
१८ अनुदात्तं सर्वमपादादौ। ४२ पुरा च परीप्सायाम्।
१९ आमन्त्रितस्य च। ४३ नन्वित्यनुज्ञैषणायाम्।
२० युष्मदस्मदोः षष्ठीचतुर्थी- ४४ किं क्रियाप्रश्नेऽनुपसर्गम-
द्वितीयास्थयोर्वान्नावौ। प्रतिषिद्धम्।
२१ बहुवचनस्य वस्नसौ। ४५ लोपे विभाषा।
२२ तेमयावेकवचनस्य। ४६ एहि मन्ये प्रहासे लृट्।
२३ त्वामौ द्वितीयायाः। ४७ जात्वपूर्वम्।
२४ न चवाहाहैवयुक्ते। ४८ किंवृत्तं च चिदुत्तरम्।
२५ पश्यार्थैश्चानालोचने। ४९ आहो उताहो चानन्तरम्।
२६ सपूर्वायाः प्रथमाया विभाषा। ५० शेषे विभाषा।
२७ तिङो गोत्रादीनि ५१ गत्यर्थलोटा लृन्
कुत्सनाभीक्ष्ण्ययोः। चेत्कारकं सर्वान्यत्।
२८ तिङ्ङतिङः। ५२ लोट् च।
२९ न लुट्। ५३ विभाषितं सोपसर्गमनुत्तमम्।
३० निपातैर्यद्यदिहन्तकुविन्नेच्- ५४ हन्त च।
चेच्चण्कच्चिद्यत्रयुक्तम्। ५५ आम एकान्तरमामन्त्रितम-
३१ नह प्रत्यारम्भे। नन्तिके।
३२ सत्यं प्रश्ने। ५६ यद्धितुपरं छन्दसि।
३३ अङ्गाप्रतिलोम्ये। ५७ चनचिदिवगोत्रादितद्धिता-
३४ हि च। म्रेडितेष्वगतेः।
३५ छन्दस्यनेकमपि साकाङ्क्षम्। ५८ चादिषु च।
८२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
५९ चवायोगे प्रथमा।
६० हेति क्षियायाम्।
६१ अहेति विनियोगे च।
६२ चाहलोप एवेत्यवधारणम्।
६३ चादिलोपे विभाषा।
६४ वैवावेति चच्छन्दसि।
६५ एकान्याभ्यां समर्थाभ्याम्।
६६ यद्वृत्तान्नित्यम्।
६७ पूजनात्पूजितमनुदात्तम्।
६८ सगतिरपि तिङ्।
६९ कुत्सने च सुप्यगोत्रादौ।
७० गतिर्गतौ।
७१ तिङि चोदात्तवति।
७२ आमन्त्रितं पूर्वमविद्यमानवत्।
७३ नामन्त्रिते समानाधिकरणे।
७४ सामान्यवचनं विभाषितं
विशेषवचने।
---o---
द्वितीयः पादः
१ पूर्वत्रासिद्धम्।
२ नलोपः सुप्स्वरसंज्ञातुग्विधिषु
कृति।
३ न मु ने।
४ उदात्तस्वरितयोर्यणः
स्वरितोऽनुदात्तस्य।
५ एकादेश उदात्तेनोदात्तः।
६ स्वरितो वानुदात्ते पदादौ।
७ नलोपः प्रातिपदिकान्तस्य।
८ न ङि·सम्बुद्धयोः।
९ मादुपधायाश्च मतोर्वोऽ-
यवादिभ्यः।
१० झयः।
११ सञ्ज्ञायाम्।
१२ आसन्दीवदष्ठीवच्चक्रीवत्
कक्षीवद् रुमण्वच्चर्मण्वती।
१३ उदन्वानुदधौ च।
१४ राजन्वान्सौराज्ये।
१५ छन्दसीरः।
१६ अनो नुट्।
१७ नाद् घस्य।
१८ कृपो रो लः।
१९ उपसर्गस्यायतौ।
२० ग्रो यङि।
२१ अचि विभाषा।
२२ परेश्च घाङ्क्ययोः।
२३ संयोगान्तस्य लोपः।
२४ रात्सस्य।
२५ धि च।
२६ झलो झलि।
२७ ह्रस्वादङ्गात्।
२८ इट ईटि।
२९ स्कोः संयोगाद्योरन्ते च।
अष्टमाध्याये द्वितीयः पादः ८३
[वामभागः / Left Column]
३० चोः कुः।
३१ हो ढः।
३२ दादेर्धातोर्घः।
३३ वा द्रुहमुह्ष्णुह्ष्णिहाम्।
३४ नहो धः।
३५ आहस्थः।
३६ व्रश्चभ्रस्जसृजमृजयजराज-
भ्राजच्छशां षः।
३७ एकाचो बशो भष्झषन्तस्य
स्ध्वोः।
३८ दधस्तथोश्च।
३९ झलां जशोऽन्ते।
४० झषस्तथोर्धोऽधः।
४१ षढोः कः सि।
४२ रदाभ्यां निष्ठातो नः पूर्वस्य
च दः।
४३ संयोगादेरातो धातोर्यण्वतः।
४४ ल्वादिभ्यः।
४५ ओदितश्च।
४६ क्षियो दीर्घात्।
४७ श्योऽस्पर्शे।
४८ अञ्चोऽनपादाने।
४९ दिवोऽविजिगीषायाम्।
५० निर्वाणोऽवाते।
५१ शुषः कः।
५२ पचो वः।
५३ क्षायो मः।
[दक्षिणभागः / Right Column]
५४ प्रस्त्योऽन्यतरस्याम्।
५५ अनुपसर्गात्फुल्लक्षीब-
कृशोल्लाघाः।
५६ नुदविदोन्दत्राघ्राहीभ्योऽन्य-
तरस्याम्।
५७ न ध्याख्यापॄमूर्च्छिमदाम्।
५८ वित्तो भोगप्रत्यययोः।
५९ भित्तं शकलम्।
६० ऋणमाधमर्ण्ये।
६१ नसत्तनिषत्तानूत्तप्रतूर्त्तसूर्त-
गूर्तानि छन्दसि।
६२ क्विन्प्रत्ययस्य कुः।
६३ नशेर्वा।
६४ मो नो धातोः।
६५ म्वोश्च।
६६ ससजुषो रुः।
६७ अवयाः श्वेतवाः पुरोडाशच।
६८ अहन्।
६९ रोऽसुपि।
७० अम्नरूधरवरित्यभयथा
छन्दसि।
७१ भुवश्च महाव्याहृतेः।
७२ वसुस्रंसुध्वंस्र्वनडुहां दः।
७३ तिप्यनस्तेः।
७४ सिपि धातो रुर्वा।
७५ दश्च।
७६ र्वोरुपधाया दीर्घ इकः।
८४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
७७ हलि च।
७८ उपधायां च।
७९ न भकुर्छुंराम्।
८० अदसोऽसेर्दादु दो मः।
८१ एत ईद् बहुवचने।
८२ वाक्यस्य टेः प्लुत उदात्तः।
८३ प्रत्यभिवादेऽशूद्रे।
८४ दूराद् धूते च।
८५ हैहेप्रयोगे हैहयोः।
८६ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य
प्राचाम्।
८७ ओमभ्यादाने।
८८ ये यज्ञकर्मणि।
८९ प्रणवष्टेः।
९० याज्यान्तः।
९१ ब्रूहिप्रैष्यश्रौषड्वौषडा-
वहानामादेः।
९२ अग्नीत्प्रेषणे परस्य च।
९३ विभाषा पृष्टप्रतिवचने
हेः।
९४ निगृह्यानुयोगे च।
९५ आम्रेडितं भर्त्सने।
९६ अङ्गयुक्तं तिङाकाङ्क्षम्।
९७ विचार्यमाणानाम्।
९८ पूर्वं तु भाषायाम्।
९९ प्रतिश्रवणे च।
१०० अनुदात्तं प्रश्नान्ताभि-
पूजितयोः।
१०१ चिदिति चोपमार्थे
प्रयुज्यमाने।
१०२ उपरि स्विादासीदिति च।
१०३ स्वरितमाम्रेडितेऽसूया-
सम्मतिकोपकुत्सनेषु।
१०४ क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्।
१०५ अनन्त्यस्यापि प्रश्नाख्यानयोः।
१०६ प्लुतावैच इदुतौ।
१०७ एचोऽप्रगृह्यस्यादूराद्धूते
पूर्वस्यार्धस्यादुत्तरस्येदुतौ।
१०८ तयोर्खावचि संहितायाम्।
--०--
तृतीयः पादः
१ मतुवसो रु सम्बुद्धौ छन्दसि।
२ अत्रानुनासिकः पूर्वस्य तु वा।
३ आतोऽटि नित्यम्।
४ अनुनासिकात्परोऽनुस्वारः।
५ समः सुटि।
६ पुमः खय्यम्परे।
७ नश्छव्यप्रशान्।
८ उभयथर्क्षु।
९ दीर्घादटि समानपादे।
१० नॄन्पे।
११ स्वतवान्पायौ।
१२ कानाम्रेडिते।
अष्टमाध्याये तृतीयः पादः ८५
१३ ढो ढे लोपः।
१४ रो रि।
१५ खरवसानयोर्विसर्जनीयः।
१६ रोः सुपि।
१७ भोभगोअघोअपूर्वस्य योऽशि।
१८ व्योर्लघुप्रयत्नतरः
शाकटायनस्य।
१९ लोपः शाकल्यस्य।
२० ओतो गार्ग्यस्य।
२१ उञि च पदे।
२२ हलि सर्वेषाम्।
२३ मोऽनुस्वारः।
२४ नश्चापदान्तस्य झलि।
२५ मो राजि समः क्वौ।
२६ हे मपरे वा।
२७ नपरे नः।
२८ ङणोः कुक्टुक्शरि।
२९ डः सि धुट्।
३० नश्च।
३१ शि तुक्।
३२ ङमो ह्रस्वादचि
ङमुणित्यम्।
३३ मय उञो वो वा।
३४ विसर्जनीयस्य सः।
३५ शर्परे विसर्जनीयः।
३६ वा शरि।
३७ कुप्वोः ᳵक ᳶपौ च।
३८ सोऽपदादौ।
३९ इणः षः।
४० नमस्पुरसोर्गत्योः।
४१ इदुदुपधस्य चाप्रत्ययस्य।
४२ तिरसोऽन्यतरस्याम्।
४३ द्वित्रिश्चतुरिति कृत्वोऽर्थे।
४४ इसुसोः सामर्थ्ये।
४५ नित्यं समासेऽनुत्तरपदस्थस्य।
४६ अतः कृकमिकंसकुम्भपात्र-
कुशाकर्णीष्वनव्ययस्य।
४७ अधःशिरसी पदे।
४८ कस्कादिषु च।
४९ छन्दसि वाप्राम्रेडितयोः।
५० कःकरत्करतिकृधिकृतेष्व-
नदितेः।
५१ पञ्चम्याः परावध्यर्थे।
५२ पातौ च बहुलम्।
५३ षष्ठ्याः पतिपुत्रपृष्ठपारपद-
पयस्पोषेषु।
५४ इडाया वा।
५५ अपदान्तस्य मूर्धन्यः।
५६ सहेः साडः सः।
५७ इण्कोः।
५८ नुम्विसर्जनीयशर्व्यवायेऽपि।
५९ आदेशप्रत्यययोः।
६० शासिवसिघसीनां च।
६१ स्तौतिण्योरेव षण्यभ्यासात्।
६२ सः स्विदिस्वदिसहीनां च।
८६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
६३ प्राक्सितादड्व्यवायेऽपि।
६४ स्थादिष्वभ्यासेन चाभ्यासस्य।
६५ उपसर्गात्सुनोतिसुवतिस्यति-
स्तौतिस्तोभतिस्थासेनायसेध-
सिचसज्जस्वञ्जाम्।
६६ सदिरप्रतेः।
६७ स्तम्भेः।
६८ अवाच्चालम्बनाविदूरयोः।
६९ वेश्च स्वनो भोजने।
७० परिनिविभ्यः सेवसितसय-
सिवुसहसुट्स्तुस्वञ्जाम्।
७१ सिवादीनां वाड्व्यवायेऽपि।
७२ अनुविपर्यभिनिभ्यः
स्यन्दतेरप्राणिषु।
७३ वेः स्कन्देरनिष्ठायाम्।
७४ परेश्च।
७५ परिस्कन्दः प्राच्यभरतेषु।
७६ स्फुरतिस्फुलत्योर्निर्निर्निविभ्यः।
७७ वेः स्कभ्नातेर्नित्यम्।
७८ इणः षीध्वंलुङ्लिटां
धोऽङ्गात्।
७९ विभाषेटः।
८० समासेऽङ्गुलेः सङ्गः।
८१ भीरोः स्थानम्।
८२ अग्नेः स्तुतस्तोमसोमाः।
८३ ज्योतिरायुषः स्तोमः।
८४ मातृपितृभ्यां स्वसा।
८५ मातुःपितुर्भ्यामन्यतरस्याम्।
८६ अभिनिसः स्तनः
शब्दसञ्ज्ञायाम्।
८७ उपसर्गप्रादुर्भ्यामस्तिर्यक्परः।
८८ सुविनिर्दुर्भ्यः
सुपिसूतिसमाः।
८९ निनदीभ्यां स्नातेः कौशले।
९० सूत्रं प्रतिष्ठातम्।
९१ कपिष्ठलो गोत्रे।
९२ प्रष्ठोऽग्रगामिनि।
९३ वृक्षासनयोर्विष्टरः।
९४ छन्दोनाम्नि च।
९५ गवियुधिभ्यां स्थिरः।
९६ विकुशमिपरिभ्यः स्थलम्।
९७ अम्बाऽम्बगोभूमिसव्यापद्वित्रि-
कुशेकुशङ्क्वङ्गुमज्जिपुञ्जि-
परमेबर्हिर्दिव्यग्निभ्यः स्थः।
९८ सुषामादिषु च।
९९ एति सञ्ज्ञायामगात्।
१०० नक्षत्राद् वा।
१०१ ह्रस्वात्तादौ तद्धिते।
१०२ निसस्तपतावनासेवने।
१०३ युष्मत्तत्ततक्षुःष्वन्तःपादम्।
१०४ यजुष्येकेषाम्।
१०५ स्तुतस्तोमयोश्छन्दसि।
१०६ पूर्वपदात्।
१०७ सृजः।
१०८ सनोतेरनः।
१०९ सहेः पृतनात्तभ्यां च।
अष्टमाध्याये चतुर्थः पादः ८७
[वाम स्तम्भः]
११० न रपरसृपिसृजिस्पृशिस्पृहि-
सवनादीनाम्।
१११ सात्पदाद्योः।
११२ सिचो यङि।
११३ सेधतेर्गत्तौ।
११४ प्रतिस्तब्धनिस्तब्धौ च।
११५ सोढः।
११६ स्तम्भुसिवुसहां चङि।
११७ सुनोतेः स्यसनोः।
११८ सदेः परस्य लिटि।
११९ निव्यभिभ्योऽड्व्यवाये वा
छन्दसि।
--o--
चतुर्थः पादः
१ रषाभ्यां नो णः समानपदे।
२ अट्कुप्वाङ्नुम्व्यवायेऽपि।
३ पूर्वपदात्संज्ञायामगः।
४ वनं पुरगामिश्रकासिध्रका-
सारिकाकोटराग्रेभ्यः।
५ प्रनिरन्तःशरेक्षुप्लक्षाप्रकार्ष्य-
खदिरपीयूक्षाभ्योऽसंज्ञायामपि।
६ विभाषौषधिवनस्पतिभ्यः।
७ अह्नोऽदन्तात्।
८ वाहनमाहितात्।
९ पानं देशे।
१० वा भावकरणयोः।
[दक्षिण स्तम्भः]
११ प्रातिपदिकान्तनुम्विभक्तिषु
च।
१२ एकाजुत्तरपदे णः।
१३ कुमति च।
१४ उपसर्गादसमासेऽपि
णोपदेशस्य।
१५ हिनु मीना।
१६ आनि लोट्।
१७ नेर्गदनदपतपदघुमास्यति-
हन्तियातिवातिद्रातिप्साति-
वपतिवहतिशाम्यति-
चिनोतिदेग्धिषु च।
१८ शेषे विभाषाकखादावषान्त
उपदेशे।
१९ अनितेरन्तः।
२० उभौ साभ्यासस्य।
२१ हन्तेरत्पूर्वस्य।
२२ वमोर्वा।
२३ अन्तरदेशे।
२४ अयनं च।
२५ छन्दस्यृदवग्रहात्।
२६ नश्च धातुस्थोरुषुभ्यः।
२७ उपसर्गादनोत्परः।
२८ कृत्यचः।
२९ णेर्विभाषा।
३० हलश्चेजुप्धात्।
८८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
३१ इजादेः सनुमः। | ५० सर्वत्र शाकल्यस्य।
३२ वा निंसनिक्षनिन्दाम्। | ५१ दीर्घादाचार्याणाम्।
३३ न भाभूपूकमिगमिप्यायी- | ५२ झलां जश्झशि।
वेपाम्। | ५३ अभ्यासे चर्च।
३४ षात्पदान्तात्। | ५४ खरि च।
३५ नशेः षान्तस्य। | ५५ वावसाने।
३६ पदान्तस्य। | ५६ अणोऽप्रगृह्यस्यानुनासिकः।
३७ पदव्यवायेऽपि। | ५७ अनुस्वारस्य ययि परसवर्णः।
३८ क्षुभ्नादिषु च। | ५८ वा पदान्तस्य।
३९ स्तोः श्चुना श्चुः। | ५९ तोर्लि।
४० ष्टुना ष्टुः। | ६० उदः स्थास्तम्भोः पूर्वस्य।
४१ न पदान्ताट् टोरनाम्। | ६१ झयो होऽन्यतरस्याम्।
४२ तोः षि। | ६२ शश्छोऽटि।
४३ शात्। | ६३ हलो यमां यमि लोपः।
४४ यरोऽनुनासिकेऽनुनासिको वा। | ६४ झरो झरि सवर्णे।
४५ अचो रहाभ्यां द्वे। | ६५ उदात्तादनुदात्तस्य स्वरितः।
४६ अनचि च। | ६६ नोदात्तस्वरितोदयमगार्य-
४७ नादिन्याक्रोशे पुत्रस्य। | काश्यपगालवानाम्।
४८ शरोऽचि। | ६७ अ अ।
४९ त्रिप्रभृतिषु शाकटायनस्य। |
इति श्रीपाणिनिमुनिप्रणीतोऽष्टाध्यायीसूत्रपाठः
( यतिबोधसहितः ) समाप्तः॥
ओ३म् द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः
शान्तिः। वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वँ शान्तिः
शान्तिरेव शान्तिः सामा शान्तिरेधि। ओ३म् शान्तिः शान्तिः शान्तिः॥