सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

प्रारंभिक पृष्ठ, माहेश्वर सूत्राणि एवं प्रत्याहार विधान

॥ ओ३म् ॥
ओ३म् भूर्भुवः स्वः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि।
धियो यो नः प्रचोदयात्॥
अष्टाध्यायीसूत्रपाठः
अथ शब्दानुशासनम्।
अथ प्रत्याहारसूत्राणि
अइउण् । ऋऌक् । एओङ् । ऐऔच् । हयवरट् । लण् ।
ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव्।
कपय् । शषसर् । हल् । इति प्रत्याहारसूत्राणि ॥
प्रथमोऽध्यायः
प्रथमः पादः
१ वृद्धिरादैच्। | ९ तुल्यास्यप्रयत्नं सवर्णम्।
२ अदेङ् गुणः। | १० नाज्झलौ।
३ इको गुणवृद्धी। | ११ ईदूदेद् द्विवचनं प्रगृह्यम्।
४ न धातुलोप आर्धधातुके। | १२ अदसो मात्।
५ क्ङिति च। | १३ शे।
६ दीधीवेवीटाम्। | १४ निपात एकाजनाङ्।
७ हलोऽनन्तराः संयोगः। | १५ ओत्।
८ मुखनासिकावचनोऽनुनासिकः। | १६ सम्बुद्धौ शाकल्यस्येतावनार्षे।
| १७ उञ ॐ।

२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
१८ ईदूत्तौ च सप्तम्यर्थे।
१९ दाधा घ्वदाप्।
२० आद्यन्तवदेकस्मिन्।
२१ तरप्तमौ घः।
२२ बहुगणवतुडति सङ्ख्या।
२३ ष्णान्ता षट्।
२४ डति च।
२५ क्तक्तवतू निष्ठा।
२६ सर्वादीनि सर्वनामानि।
२७ विभाषा दिक्समासे बहुव्रीहौ।
२८ न बहुव्रीहौ।
२९ तृतीयासमासे।
३० द्वन्द्वे च।
३१ विभाषा जसि।
३२ प्रथमचरमतयाल्पार्धकतिपय-
नेमाश्च।
३३ पूर्वपरावरदक्षिणोत्तरापराधराणि
व्यवस्थायामसंज्ञायाम्।
३४ स्वमज्ञातिधनाख्यायाम्।
३५ अन्तरं बहिर्योगोपसंव्यानयोः।
३६ स्वरादिनिपातमव्ययम्।
३७ तद्धितश्चासर्वविभक्तिः।
३८ कृन्मेजन्तः।
३९ क्त्वातोसुन्कसुनः।
४० अव्ययीभावश्च।
४१ शि सर्वनामस्थानम्।
४२ सुडनपुंसकस्य।
४३ न वेति विभाषा।
४४ इग्यणः सम्प्रसारणम्।
४५ आद्यन्तौ टकितौ।
४६ मिदचोऽन्त्यात्परः।
४७ एच इग्घ्रस्वादेशे।
४८ षष्ठी स्थानेयोगा।
४९ स्थानेऽन्तरतमः।
५० उरण्रपरः।
५१ अलोऽन्त्यस्य।
५२ ङिच्च।
५३ आदेः परस्य।
५४ अनेकाल्शित्सर्वस्य।
५५ स्थानिवदादेशोऽनल्विधौ।
५६ अचः परस्मिन्पूर्वविधौ।
५७ न पदान्तद्विर्वचनवरेयलोप-
स्वरसवर्णानुस्वारदीर्घजश्-
चर्विधिषु।
५८ द्विर्वचनेऽचि।
५९ अदर्शनं लोपः।
६० प्रत्ययस्य लुक्श्लुलुपः।
६१ प्रत्ययलोपे प्रत्ययलक्षणम्।
६२ न लुमताङ्गस्य।
६३ अचोऽन्त्यादि टि।
६४ अलोऽन्त्यात्पूर्व उपधा।
६५ तस्मिन्निति निर्दिष्टे पूर्वस्य।
६६ तस्मादित्युत्तरस्य।
६७ स्वं रूपं शब्दस्याशब्दसंज्ञा।

प्रथमाध्याये द्वितीयः पादः ३
६८ अणुदित्सवर्णस्य चाप्रत्ययः।
६९ तपरस्तत्कालस्य।
७० आदिरन्त्येन सहेता।
७१ येन विधिस्तदन्तस्य।
७२ वृद्धिर्यस्याचामादिस्तद् वृद्धम्।
७३ त्यदादीनि च।
७४ एड् प्राचां देशे।
--०--
द्वितीयः पादः
१ गाङ्कुटादिभ्योऽञ्णिन्ङित्।
२ विज इट्।
३ विभाषोर्णोः।
४ सार्वधातुकमपित्।
५ असंयोगाल्लिट् कित्।
६ इन्धिभवतिभ्यां च।
७ मृद्मृद्गुधकुषक्लिशवदवसः
क्त्वा।
८ रुदविदमुषग्रहिस्वपिप्रच्छः
संश्च।
९ इको झल्।
१० हलन्ताच्च।
११ लिङ्सिचावात्मनेपदेषु।
१२ उश्च।
१३ वा गमः।
१४ हनः सिच्।
१५ यमो गन्धने।
१६ विभाषोपयमने।
१७ स्थाघ्वोरिच्च।
१८ न क्त्वा सेट्।
१९ निष्ठा शीङ्स्विदिमिदि-
क्ष्विदिधृषः।
२० मृषस्तितिक्षायाम्।
२१ उदुपधाद् भावादिकर्मणोरन्य-
तरस्याम्।
२२ पूङः क्त्वा च।
२३ नोपधात्थफान्ताद् वा।
२४ वञ्चिलुञ्च्यृतश्च।
२५ तृषिमृषिकृशेः काश्यपस्य।
२६ रलो व्युपधाद् धलादेः संश्च।
२७ ऊकालोऽज्झ्रस्वदीर्घप्लुतः।
२८ अचश्च।
२९ उच्चैरुदात्तः।
३० नीचैरनुदात्तः।
३१ समाहारः स्वरितः।
३२ तस्यादित उदात्तमर्धह्रस्वम्।
३३ एकश्रुति दूरात्सम्बुद्धौ।
३४ यज्ञकर्मण्यजपन्यूङ्खसामसु।
३५ उच्चैस्तरां वा वषट्कारः।
३६ विभाषा छन्दसि।
३७ न सुब्रह्मण्यायां स्वरितस्य
तूदात्तः।
३८ देवब्रह्मणोरनुदात्तः।
३९ स्वरितात्संहितायाम-
नुदात्तानाम्।

४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
४० उदात्तस्वरितपरस्य सन्नतरः।
४१ अपृक्त एकाल्प्रत्ययः।
४२ तत्पुरुषः समानाधिकरणः
कर्मधारयः।
४३ प्रथमानिर्दिष्टं समास
उपसर्जनम्।
४४ एकविभक्ति चापूर्वनिपाते।
४५ अर्थवदधातुरप्रत्ययः
प्रातिपदिकम्।
४६ कृत्तद्धितसमासाश्च।
४७ ह्रस्वो नपुंसके प्रातिपदिकस्य।
४८ गोस्त्रियोरुपसर्जनस्य।
४९ लुक्तद्धितलुकि।
५० इद् गोण्याः।
५१ लुपि युक्तवद् व्यक्तिवचने।
५२ विशेषणानां चाजातेः।
५३ तदशिष्यं संज्ञाप्रमाणत्वात्।
५४ लुब्योगाप्रख्यानात्।
५५ योगप्रमाणे च तदभावेऽदर्शनं
स्यात्।
५६ प्रधानप्रत्ययार्थवचनमर्थस्यान्य-
प्रमाणत्वात्।
५७ कालोपसर्जने च तुल्यम्।
५८ जात्याख्यायामेकस्मिन्
बहुवचनमन्यतरस्याम्।
५९ अस्मदो द्वयोश्च।
६० फल्गुनीप्रोष्ठपदानां च नक्षत्रे।
६१ छन्दसि पुनर्वस्वोरेकवचनम्।
६२ विशाखयोश्च।
६३ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे
बहुवचनस्य द्विवचनं नित्यम्।
६४ सरूपाणामेकशेष एकविभक्तौ।
६५ वृद्धो यूना तल्लक्षणश्चेदेव
विशेषः।
६६ स्त्री पुंवच्च।
६७ पुमान्स्त्रिया।
६८ भ्रातृपुत्रौ स्वसृदुहितृभ्याम्।
६९ नपुंसकमनपुंसकेनकवच्
चास्यान्यतरस्याम्।
७० पिता मात्रा।
७१ श्वशुरः श्वश्र्वा।
७२ त्यदादीनि सर्वैर्नित्यम्।
७३ ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री।
--०--
तृतीयः पादः
१ भूवादयो धातवः।
२ उपदेशेऽजनुनासिक इत्।
३ हलन्त्यम्।
४ न विभक्तौ तुस्माः।
५ आदिर्ञिटुडवः।
६ षः प्रत्ययस्य।
७ चुटू।
८ लशक्वतद्धिते।
९ तस्य लोपः।

प्रथमाध्याये तृतीयः पादः ५

[स्तम्भः १]
१० यथासङ्ख्यमनुदेशः समानाम्।
११ स्वरितेनाधिकारः।
१२ अनुदात्तङित आत्मनेपदम्।
१३ भावकर्मणोः।
१४ कर्तरि कर्मव्यतिहारे।
१५ न गतिहिंसार्थेभ्यः।
१६ इतरेतरान्योऽन्योपपदाच्च।
१७ नेर्विशः।
१८ परिव्यवेभ्यः क्रियः।
१९ विपराभ्यां जेः।
२० आङो दोऽनास्यविहरणे।
२१ क्रीडोऽनुसम्परिभ्यश्च।
२२ समवप्रविभ्यः स्थः।
२३ प्रकाशनस्थेयाख्ययोश्च।
२४ उदोऽनूर्ध्वकर्मणि।
२५ उपान्मन्त्रकरणे।
२६ अकर्मकाच्च।
२७ उद्द्विभ्यां तपः।
२८ आङो यमहनः।
२९ समो गम्यृच्छिभ्याम्।
३० निसमुपविभ्यो ह्वः।
३१ स्पर्धायामाङः।
३२ गन्धनावक्षेपणसेवनसाहसिक्य-
प्रतियत्नप्रकथनोपयोगेषु
कृञः।
३३ अधेः प्रसहने।

[स्तम्भः २]
३४ वेः शब्दकर्मणः।
३५ अकर्मकाच्च।
३६ सम्माननोत्सञ्जनाचार्यकरण-
ज्ञानभृतिविगणनव्ययेषु नियः।
३७ कर्तृस्थे चाशरीरे कर्मणि।
३८ वृत्तिसर्गतायनेषु क्रमः।
३९ उपपराभ्याम्।
४० आङ उद्गमने।
४१ वेः पादविहरणे।
४२ प्रोपाभ्यां समर्थाभ्याम्।
४३ अनुपसर्गाद् वा।
४४ अपह्नवे ज्ञः।
४५ अकर्मकाच्च।
४६ सम्प्रतिभ्यामनाध्याने।
४७ भासनोपसम्भाषाज्ञानयत्न-
विमत्युपमन्त्रणेषु वदः।
४८ व्यक्तवाचां समुच्चारणे।
४९ अनोरकर्मकात्।
५० विभाषा विप्रलापे।
५१ अवाद् ग्रः।
५२ समः प्रतिज्ञाने।
५३ उदश्चरः सकर्मकात्।
५४ समस्तृतीयायुक्तात्।
५५ दाणश्च सा चेच्चतुर्थ्यर्थे।
५६ उपाद् यमः स्वकरणे।
५७ ज्ञाश्रुस्मृदृशां सनः।
५८ नानोर्ज्ञः।

६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
[ वामस्तम्भः / Left Column ]
५९ प्रत्याङ्भ्यां श्रुवः।
६० शदेः शितः।
६१ म्रियतेर्लुङ्लिङोश्च।
६२ पूर्ववत्सनः।
६३ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य।
६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु।
६५ समः क्ष्णुवः।
६६ भुजोऽनवने।
६७ णेरणौ यत्कर्म णौ चेत्स
कर्तानाध्याने।
६८ भीस्म्योर्हेतुभये।
६९ गृधिवञ्च्योः प्रलम्भने।
७० लियः सम्माननशालीनी-
करणयोश्च।
७१ मिथ्योपपदात्कृञोऽभ्यासे।
७२ स्वरितञितः कर्त्रभिप्राये
क्रियाफले।
७३ अपाद् वदः।
७४ णिचश्च।
७५ समुदाङ्भ्यो यमोऽग्रन्थे।
७६ अनुपसर्गाज्ज्ञः।
७७ विभाषोपपदेन प्रतीयमाने।
७८ शेषात्कर्तरि परस्मैपदम्।
७९ अनुपराभ्यां कृञः।
८० अभिप्रत्यतिभ्यः क्षिपः।
८१ प्राद् वहः।
८२ परेर्मृषः।
[ दक्षिणस्तम्भः / Right Column ]
८३ व्याङ्परिभ्यो रमः।
८४ उपाच्च।
८५ विभाषाकर्मकात्।
८६ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः।
८७ निगरणचलनार्थेभ्यश्च।
८८ अणावकर्मकाच्चित्तवत्-
कर्तृकात्।
८९ न पादम्याङ्यमाङ्यस-
परिमुहरुचिनृतिवदवसः।
९० वा क्यषः।
९१ द्युद्भ्यो लुङि।
९२ वृद्भ्यः स्यसनोः।
९३ लुटि च कॢपः।
--०--
चतुर्थः पादः
१ आ कडारादेका सञ्ज्ञा।
२ विप्रतिषेधे परं कार्यम्।
३ यू स्त्र्याख्यौ नदी।
४ नेयङुवङ्स्थानावस्त्री।
५ वामि।
६ ङिति ह्रस्वश्च।
७ शेषो घ्यसखि।
८ पतिः समास एव।
९ षष्ठीयुक्तश्छन्दसि वा।
१० ह्रस्वं लघु।
११ संयोगे गुरु।
१२ दीर्घं च।

प्रथमाध्याये चतुर्थः पादः ७

[वामस्तम्भः]
१३ यस्मात्प्रत्ययविधिस्तदादि
प्रत्ययेऽङ्गम्।
१४ सुप्तिङन्तं पदम्।
१५ नः क्ये।
१६ सिति च।
१७ स्वादिष्वसर्वनामस्थाने।
१८ यचि भम्।
१९ तसौ मत्वर्थे।
२० अयस्मयादीनिच्छन्दसि।
२१ बहुषु बहुवचनम्।
२२ द्व्येकयोर्द्विवचनैकवचने।
२३ कारके।
२४ ध्रुवमपायेऽपादानम्।
२५ भीत्रार्थानां भयहेतुः।
२६ पराजेरसोढः।
२७ वारणार्थानामीप्सितः।
२८ अन्तर्धौ येनादर्शनमिच्छति।
२९ आख्यातोपयोगे।
३० जनिकर्तुः प्रकृतिः।
३१ भुवः प्रभवः।
३२ कर्मणा यमभिप्रैति स
सम्प्रदानम्।
३३ रुच्यर्थानां प्रीयमाणः।
३४ श्लाघह्नुङ्स्थाशपां
ज्ञीप्स्यमानः।
३५ धारेरुत्तमर्णः।

[दक्षिणस्तम्भः]
३६ स्पृहेरीप्सितः।
३७ क्रुधद्रुहेर्ष्यासूयार्थानां यं
प्रति कोपः।
३८ क्रुधद्रुहोरुपसृष्टयोः कर्म।
३९ राधीक्ष्योर्यस्य विप्रश्नः।
४० प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता।
४१ अनुप्रतिगृणश्च।
४२ साधकतमं करणम्।
४३ दिवः कर्म च।
४४ परिक्रयणे सम्प्रदानमन्य-
तरस्याम्।
४५ आधारोऽधिकरणम्।
४६ अधिशीङ्स्थासां कर्म।
४७ अभिनिविशश्च।
४८ उपान्वध्याङ्वसः।
४९ कर्तुरीप्सिततमं कर्म।
५० तथायुक्तं चानीप्सितम्।
५१ अकथितं च।
५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा-
कर्मकाणामणि कर्ता स णौ।
५३ हृक्रोरन्यतरस्याम्।
५४ स्वतन्त्रः कर्ता।
५५ तत्प्रयोजको हेतुश्च।
५६ प्राग्रीश्वरान्निपाताः।
५७ चादयोऽसत्त्वे।
५८ प्रादय उपसर्गाः क्रियायोगे।

८ अष्टाध्यायीसूत्रपाठः (यतिबोधसहितः)
५९ गतिश्च।
६० ऊर्यादिच्चिडाचश्च।
६१ अनुकरणं चानितिपरम्।
६२ आदरानादरयोः सदसती।
६३ भूषणेऽलम्।
६४ अन्तरपरिग्रहे।
६५ कणेमनसी श्रद्धाप्रतीघाते।
६६ पुरोऽव्ययम्।
६७ अस्तं च।
६८ अच्छ गत्यर्थवदेषु।
६९ अदोऽनुपदेशे।
७० तिरोऽन्तर्धौ।
७१ विभाषा कृञि।
७२ उपाजेऽन्वाजे।
७३ साक्षात्प्रभृतीनि च।
७४ अनत्याधान उरसिमनसी।
७५ मध्ये पदे निवचने च।
७६ नित्यं हस्ते पाणावुपयमने।
७७ प्राध्वं बन्धने।
७८ जीविकोपनिषदावौपम्ये।
७९ ते प्राग्धातोः।
८० छन्दसि परेऽपि।
८१ व्यवहिताश्च।
८२ कर्मप्रवचनीयाः।
८३ अनुर्लक्षणे।
८४ तृतीयार्थे।
८५ हीने।
८६ उपोऽधिके च।
८७ अपपरी वर्जने।
८८ आङ् मर्यादावचने।
८९ लक्षणेत्थम्भूताख्यानभाग-
वीप्सासु प्रतिपर्यन्ववः।
९० अभिरभागे।
९१ प्रतिः प्रतिनिधिप्रतिदानयोः।
९२ अधिपरी अनर्थकौ।
९३ सुः पूजायाम्।
९४ अतिरतिक्रमणे च।
९५ अपिः पदार्थसम्भावनावव-
सर्गगर्हासमुच्चयेषु।
९६ अधीश्वरे।
९७ विभाषा कृञि।
९८ लः परस्मैपदम्।
९९ तङानावात्मनेपदम्।
१०० तिङस्त्रीणि त्रीणि
प्रथममध्यमोत्तमाः।
१०१ तान्येकवचनद्विवचन-
बहुवचनान्येकशः।
१०२ सुपः।
१०३ विभक्तिश्च।
१०४ युष्मद्युपपदे समानाधिकरणे
स्थानिन्यपि मध्यमः।
१०५ प्रहासे च मन्योपपदे
मन्यतेरुत्तम एकवच्च।