सामग्री पर जाएँ
सर्वकोश
अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

पृष्ठ 3, कुल 102 में से

संदर्भ में पढ़ें
पृष्ठ 3

प्रथमाध्याये द्वितीयः पादः ३
६८ अणुदित्सवर्णस्य चाप्रत्ययः।
६९ तपरस्तत्कालस्य।
७० आदिरन्त्येन सहेता।
७१ येन विधिस्तदन्तस्य।
७२ वृद्धिर्यस्याचामादिस्तद् वृद्धम्।
७३ त्यदादीनि च।
७४ एड् प्राचां देशे।
--०--
द्वितीयः पादः
१ गाङ्कुटादिभ्योऽञ्णिन्ङित्।
२ विज इट्।
३ विभाषोर्णोः।
४ सार्वधातुकमपित्।
५ असंयोगाल्लिट् कित्।
६ इन्धिभवतिभ्यां च।
७ मृद्मृद्गुधकुषक्लिशवदवसः
क्त्वा।
८ रुदविदमुषग्रहिस्वपिप्रच्छः
संश्च।
९ इको झल्।
१० हलन्ताच्च।
११ लिङ्सिचावात्मनेपदेषु।
१२ उश्च।
१३ वा गमः।
१४ हनः सिच्।
१५ यमो गन्धने।
१६ विभाषोपयमने।
१७ स्थाघ्वोरिच्च।
१८ न क्त्वा सेट्।
१९ निष्ठा शीङ्स्विदिमिदि-
क्ष्विदिधृषः।
२० मृषस्तितिक्षायाम्।
२१ उदुपधाद् भावादिकर्मणोरन्य-
तरस्याम्।
२२ पूङः क्त्वा च।
२३ नोपधात्थफान्ताद् वा।
२४ वञ्चिलुञ्च्यृतश्च।
२५ तृषिमृषिकृशेः काश्यपस्य।
२६ रलो व्युपधाद् धलादेः संश्च।
२७ ऊकालोऽज्झ्रस्वदीर्घप्लुतः।
२८ अचश्च।
२९ उच्चैरुदात्तः।
३० नीचैरनुदात्तः।
३१ समाहारः स्वरितः।
३२ तस्यादित उदात्तमर्धह्रस्वम्।
३३ एकश्रुति दूरात्सम्बुद्धौ।
३४ यज्ञकर्मण्यजपन्यूङ्खसामसु।
३५ उच्चैस्तरां वा वषट्कारः।
३६ विभाषा छन्दसि।
३७ न सुब्रह्मण्यायां स्वरितस्य
तूदात्तः।
३८ देवब्रह्मणोरनुदात्तः।
३९ स्वरितात्संहितायाम-
नुदात्तानाम्।