सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 202, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 202

वैश्वदेवबलिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९१
अपर आह—ब्रह्मा यत्र सीदति गार्ह्येषु कर्मसु अग्नेर्दक्षिणतो
ब्रह्मसदनं तन्नेति ॥ ४ ॥
दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीन-
पाणिः कुर्यात् ॥ ५ ॥
अनन्तराणां बलीनां दक्षिणत पितृलिङ्गेन ‘स्वधा पितृभ्य’ इत्यनेन बलिं
कुर्यात्, प्राचीनावीत्यवाचीनपाणिश्च भूत्वा दक्षिणं पाणिमुत्तानं कृत्वा अङ्गुष्ठत-
र्जन्योरन्तरालेन ॥ ५ ॥
रौद्र उत्तरो यथा देवताभ्यः ॥ ६ ॥
पितृबलेरुत्तरतो रौद्रबलिः कर्तव्यः । यथा देवताभ्य तथा, प्राचीनावीत्य-
वाचीनपाणिरिति नाऽनुवर्तत इत्यर्थः । ‘नमो रुद्राय पशुपतये स्वाहे’ति
मन्त्रः । अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति, तथापि तद्रुद्रस्यैव विशेषण
मिति रौद्र इति व्यपदेशो नाऽनुपपन्नः । देवतास्मरणमपि रुद्रायेत्येव
कुर्वन्ति । रुद्राय पशुपतय इत्यन्ये । केचित्तु-उत्तरो मन्त्रो रौद्रः न पशु-
पतिदैवत्य इत्याचक्षते । तेषां देशः प्राग्वोदग्वा पिण्डात् ॥ ६ ॥
तयोर्नाना परिषेचनं धर्मभेदात् ॥ ७ ॥
तयोरनन्तरोक्तयोर्बल्योरेकस्मिन् देशे समवेतयोरपि नाना पृथक्
परिषेचनं कर्त्तव्यम् । कुतः ? धर्मभेदात् । पित्र्यस्याऽप्रदक्षिणं परिषेचनं
कर्तव्यम् । इतरस्य दैवत्वात्प्रदक्षिणमिति ॥ ७ ॥
नक्तमेवोत्तमेन वैहायसम् ॥ ८ ॥
उत्तमेन ‘ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः ।
तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहे’(१)
त्यनेन वैहायसं बलिं दद्यात् । तच्च नक्तमेव । ‘वैहायसमि’ति वचनादा
काश एव बलिरुत्क्षेप्यः, न छदिष्कृते देशे । तथाच बौधायनः-
(२)‘अथाऽऽकाश उत्क्षिपति ये भूताः प्रचरन्ती’ति ।
अपर आह—एवकारो भिन्नक्रमः । नक्तमुत्तमेनैव बलिरिति तत्र ब
ल्यन्तराणां रात्रौ निवृत्तिः । अन्ये तु-ऊहेन दिवा बलिं हरन्ति ‘दिवा
१ अत्र “अग्नये स्वाहा” इत्यादिका. ‘ये भूताः प्रचरन्ति’ इत्यन्ता. मन्त्राः एका-
ग्निकाण्डाख्यतैत्तिरीयमन्त्रपाठस्याऽऽदौ महानारायणोपनिषदि च पठिताः । (महाना.६७)
२. बौ. गृ. १. ८.