आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 246, कुल 399 में से
संदर्भ में पढ़ेंदायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३५
अत्र व्यासः—
(१)‘असंस्कृतास्तु ये तत्र पैतृकादेव ते धनात् ।
संस्कार्या भ्रातृभिर्ज्येष्ठैः कन्यकाश्च यथाविधि ॥’ इति ।
अत्र क्रमविवाहे बृहस्पतिः—
(२)‘ब्रह्मक्षत्रियविट्शूद्रा विप्रोत्पन्नास्त्वनुक्रमात् ।
चतुस्त्रिद्व्येकभागेन भजेयुस्ते यथाक्रमम् ॥
क्षत्रजास्त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ।’ इति ।
मानवे च स्पष्टमुक्तम्—
(३)‘सर्वे वा रिक्थजात तद्दशधा प्रविभज्य तु ।
धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥
चतुरोऽंशान् हरेद्विप्रः त्रीनंशाञ् क्षत्रियासुतः ।
वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ॥ इति ।
यस्य तु ब्राह्मणी वन्ध्या मृता वा तत्र क्षत्रियादिसुतास्त्रिद्व्येकभा-
गाः । यस्य त्वेकस्यामेव पुत्रस्स सर्वे हरेत् शूद्रापुत्रवर्जम् ।
यथाह देवलः—
(४)आनुलोम्येकपुत्रस्तु पितुस्सर्वस्वभागवेत् ।
निषाद एकपुत्रस्तु विप्रस्वस्य तृतीयभाक् ॥
द्वौ सपिण्डस्सकुल्यो वा स्वधादाता तु त हरेत्’ इति ।
निषादः पारशवः । क्षेत्रविषये बृहस्पतिः—
(५)न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै ।
यद्यप्यस्य पिता दद्यान्मृते विप्रासुतो हरेत् ॥
शूद्रां द्विजातिभिर्जातो न भूमेर्भागमर्हति ।
सजातावाप्नुयात्सर्वमिति धर्मो व्यवस्थितः ॥’ इति ॥
याज्ञवल्क्यः—
(६)जातो हि दास्यां शूद्रेण कामतोऽशहरो भवेत् ।
मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिनम् ॥’ इति ।
भार्याविषये विष्णुः—
(७)मातरः पुत्रभागानुसारतो भागहारिण्य’ इति । अत्र,
औरस. पुत्रिकाबीजक्षेत्रजौ पुत्रिकासुतः ।
१. २. ४. ५. ७. इमानि वचनानि मुद्रित तत्तद्ग्रन्थेषु नोपलभ्यन्ते ।
३. म स्मृ. ७. १५२. १५३. ६. या. स्मृ. २. १३३.