आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 218, कुल 399 में से
संदर्भ में पढ़ेंपि। अहुतोऽवित्यनेन सामानाधिकरण्यात् होमोऽपि त्रिष्वपि भवति। ते
नाऽऽहवनीयहोमानन्तरमतिथावागतेऽपि त्रिषु होमो न कृत इति वक्ष्य-
माणे विधिर्भवत्येव । कः पुनरसौ ? स्वयमेनम्अभ्युदेत्य ब्रूयात् । व्रात्या
ऽतिसृज, अनुजानीहि होष्यामीति । ततो जुहुधीत्यातिसृजेत् । अति-
सृष्टेन होतव्यम् । यदि पुनरनतिसृष्टोऽननुज्ञातो जुहुयात्, तस्य दोष-
माथर्वणिकानां ब्राह्मणवाक्यमाह । (१)तदत्र न पठितं तत्रप्रत्येतव्यम् ।
अत्र पक्षे स्वयं होमो नियतः ॥ १५ ॥
एकरात्रं चेदतिथीन्वासयेत्पार्थिवाँल्लोकानभिजयति द्वि-
तिययाऽऽन्तरिक्ष्यांस्तृतियया दिव्यांश्चतुर्थ्या परावतो
लोकानपरिमितीभिरपरिमितीँल्लोकानभिजयती-
ति विज्ञायते ॥ १६ ॥
य(२)एकां रात्रिमतिथीन् गृहे वासयति, स पृथिव्यां भवान् लोकानभि-
जयति । द्वितीयया रात्र्या आन्तरिक्ष्यान् । तृतीयया दिव्यान् । चतुर्थ्या परावतः
सुखस्य परा मात्रा येषु लोकेषु तानभिजयति । अपरिमितीभीरात्रिभिर-
परिमितान् लोकानिति विज्ञायते ब्राह्मणं भवति ॥ १६ ॥
असमुदेतश्चेदतिथिर्ब्रवाण आगच्छेदासनमुदकमन्नं श्रो-
त्रियाय ददामीत्येव दद्यादेवमस्य समृद्धं भवति १७
विद्यादिभीरहितोऽसमुदेतः । स चेदतिथिरिति ब्रुवाण आगच्छेत्तदा तस्मै
आसनादिक श्रोत्रियायैव ददामीत्येवं मनसि कृत्वा दद्यात् । एवं ददतोऽस्य तद्दान
समृद्धं भवति श्रोत्रियायैव दत्तं भवति ॥ १७ ॥
इति द्वितीयप्रश्ने सप्तमी कण्डिका ॥ ७ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायाम्-
उज्ज्वलायां द्वितीयप्रश्ने तृतीयः पटलः ॥ ३ ॥
१ नास्तीदं वाक्यं घ० पुस्तके । २. एकरात्र इति घ. मु.