सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 217, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 217

२०६ आपस्तम्बधर्मसूत्रे [ (प्र. ३.) क. ९.
(१) राजा अभिषिक्तः क्षत्रियः । सोऽतिथयेऽभ्यागताय आत्मनोऽपि
सकाशात् श्रेयसीं पूजां कारयेत् पुरोहितेन ॥ १२ ॥
आहिताग्निं चेदतिथिर्भ्यागच्छेत्स्वयमेनमभ्युदेत्य
ब्रूयाद्-व्रात्य क्वाऽवात्सीरिति, व्रात्योदकमिति,
व्रात्य तर्पयंस्त्विति ॥ १३ ॥
यद्याहिताग्निमुद्दिश्यातिथिरागच्छेत्, तत एनमतिथिं स्वयमेवाभिमुख
उपसर्पेत् । अत्र स्वयमिति वचनादनाहिताग्निरन्येन शिष्यादिना कार
यन्नपि न दुष्यति । तमभ्युदेत्य ब्रूयात्-व्रात्य क्वावात्सीरिति कुशलप्रश्नः ।
व्रते साधुर्व्रात्यः स एव व्रात्य इति पूजनाभिधानम् । क्व पूर्वस्यां रात्रावु-
षितवानसीति । 'व्रात्योदक'मित्युदकदानम् । 'व्रात्य तर्पयंस्ति'त्विति गो-
रसादिभिस्तर्पणम् । अनुस्वारसकारौ छान्दसौ । क्रियाभेदात्प्रतिम-
न्त्रमितिशब्दः । एतत्सर्वेषु कालेषु कर्तव्यम् ॥ १३ ॥
पुराऽग्निहोत्रस्य होमादुपांशु जपेत्-व्रात्य यथा ते मन
स्तथाऽस्त्विति, व्रात्य यथा ते वशस्तथाऽस्त्विति,
व्रात्य यथा ते प्रियं तथाऽस्त्विति, व्रात्य
यथा ते निकामस्तथाऽस्त्विति ॥ १४ ॥
स यदि होमकालेऽप्यासीत्, तदा पुरा होमादपरेणाग्निं दर्भेषु
सादयित्वा 'व्रात्य यथा ते मन' इत्यादिमन्त्रानुपांशु जपेत् ब्रूयात् । तत्र
प्रतिमन्त्रमितिशब्दप्रयोगादर्थभेदाच्चचतुर्णां विकल्पः । समुच्चय
इत्यन्ये । अत्र वाऽध्वर्युर्यजमानो वा यो(२)होता स जपेत् । ततो
जुहुयात् ॥ १४ ॥
यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिर्भ्यागच्छेत्स्वयमेनम्
भ्युदैत्य ब्रूयात्-व्रात्याऽतिसृज होष्यामीत्यातिसृ-
ष्टेन होतव्यमनातिसृष्टश्चेज्जुहुयाद्दोषं
ब्राह्मणमाह ॥ १५ ॥
उद्धृतेष्विति बहुवचनं सभ्यावसथ्यापेक्षम्। यस्य तु त्रयोऽग्नयः, तस्या
१. राजेत्येतानभिषिक्तानाचक्षते इत्यैतरेयब्राह्मणम् । ऐ. ब्रा. ८. १४ ६
२. अग्निहोत्रहवनकर्ता होता ।