आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 219, कुल 399 में से
संदर्भ में पढ़ेंअथ चतुर्थः पटलः ॥
येन कृतावसथः स्यादतिथिर्न तं प्रत्युत्तिष्ठेत्प्रत्यवरो-
हेद्वा पुरस्ताच्चेदभिवादितः ॥ १ ॥
येन गृहस्थेनाऽतिथिः कृतावसथःस्यात् (१)कृतावासः दत्तावा-
सः स्यात् । द्वितीयान्तरिक्ष्यानित्यादिवचनात् द्वितीयादिष्वहस्सु त
प्रति न प्रत्युत्तिष्ठेत् । नाऽप्यासनात् प्रत्यवरोहेत् । स चेत्तस्मिन्नहनि
पूर्वमेवाभिवादित । अनभिवादिते तु अभिवादनार्थं प्रत्युत्तिष्ठेत्,
प्रत्यवरोहेच्च ॥ १ ॥
शेषभोज्यतिथीनां स्यात् ॥ २ ॥
'अतिथीनेवाग्रे भोजये'(२.४.१९.)दित्येव सिद्धे वचनमिदं प्रमादाद्यन्न
दत्तमतिथये, तन्न भुञ्जीतेत्येवमर्थम् ॥ २ ॥
न रसान् गृहे भुञ्जीताऽनवशेषमतिथिभ्यः ॥ ३ ॥
आगामिभ्योऽतिथिभ्यो यथा न किञ्चित् गुहेऽवशिष्यते, तथा
गव्यादयो रसा न भोज्याः । सद्यस्सम्पादयितुमशक्यत्वाद्रसानाम्॥३॥
नाऽऽत्मार्थमभिरूपमन्नं पाचयेत् ॥ ४ ॥
आत्मानमुद्दिश्याऽभिरूपमन्नं स्वाद्वपूपादि न पाचयेत् ॥ ४ ॥
गोमधुपर्कार्हो वेदाध्यायः ॥ ५ ॥
साङ्गस्य वेदस्याऽध्येता वेदाध्याय । सोऽतिथिर्मधुपर्कमर्हति, गां च
दक्षिणाम् ॥ ५ ॥
आचार्य ऋत्विक्स्नातको राजा वा धर्मयुक्तः ॥ ६ ॥
अवेदाध्याया अप्याचार्यादयो गोमधुपर्कार्हाः । अत एव ज्ञायते—
एकदेशाध्यायिनावप्यृत्विगाचार्यो भवत इति । धर्मयुक्त इति राज्ञो विशे-
षणम् । वाशब्दः समुच्चये ॥ ६ ॥
आचार्यायार्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरा-
दुपत्तिष्ठद्भ्यो गौर्मधुपर्कश्च ॥ ७ ॥
एतत् (२)गृह्ये व्याख्यातम् । गौरत्र दक्षिणाऽधिका विधीयते ॥७॥
१. कृतवास दत्तवासः इति क० पु० २. आप. गृ १३ १९