अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)
Ananga Ranga of Kalyanamalla with Commentary
महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा
पृष्ठ 71, कुल 112 में से
संदर्भ में पढ़ेंस्थलः ] अनङ्गरङ्गः ७९
ज्वरितां च कुमारिकां रते
विपरीते परिवर्जयेत्सुधीः ७७ ॥ ३८ ॥
॥ अथ करताडनसीत्कृतोद्देशः ॥
कामयुद्धाङ्गयुग्मं ७८ स्यात्करताडनसीत्कृते ।
तत्ताडनं चतुर्धोक्तं ७९ सीत्कृतं पञ्चधा स्मृतम् ॥ ३९ ॥
प्रसृतेनापहस्तेन ८० मुष्टिना, समपाणिना ।
ताडनं स्याच्चतुर्धैवं तस्य स्थानानि संब्रुवे ८१ ॥ ४० ॥
पार्श्वे गुह्ये समतलं मुष्टिं ८२ पृष्ठे ऽथ मूर्धनि ।
फणाकारं प्रसृतकं युञ्ज्याद्वक्षस्यपहस्तकम् ॥ ४१ ॥
॥ अथ ताडनभेदाः ॥
विपरीतरते ८३ यदाङ्गना
हृदि मुष्ट्या परित्ताडयेत्पतिम् ।
कण्ठ्यातनकं ८४ तदा बुधै-
रिति संताडितसंज्ञमुच्यते ॥ ४२ ॥
विस्तीर्णहस्तेन यदा रतौ ८५ स्त्री
हन्यात्पतिं स्यात्स पताकसंज्ञः ८६ ।
अङ्गुष्ठकेनैव कृतः प्रहारो ८७
विज्ञैः स उक्तः खलु बिन्दुमाला ८९ ॥ ४३ ॥
साङ्गुष्ठमध्याङ्गुलिकाप्रहारं ९४
शनैः पुरन्ध्री कुरुते ऽतिरागात् ।
यश्चैष उक्तः ऋषिभिः पुराणै-
रानन्दकृत्कुण्डलनामधेयः ॥ ४४ ॥