सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 70, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 70

९८ अनङ्गरङ्गः [ दशमः
सुप्तस्य पुंसो जघनोपरिस्थिता ६५
संभ्रामयन्त्यङ्घ्रियुगं त्रिविश्रितम् ।
चक्राकृतिः स्त्री नरविद्भिरेते
तच्चापगाख्यं करणं ६६ समा॑रितम् ॥ ३३ ॥
प्रेङ्खविभ्रमवती ६७ स्मरयन्त्रे ६८
भर्तृलिङ्गमुपादाय पुरन्ध्री ।
भ्रामयेत्कटिपतङ्गदिलाचा
स्यात्तदा करणमुत्कलिताख्यम् ॥ ३४ ॥
विपरीतरते सर्मांकृता
दरहासातिमनोरमानना ६९ ।
कितवाद्य वशं गतो ऽसि मे
स्मरयुद्धे विजितो ऽसि चापलम् ॥ ३५ ॥
इति मञ्जु रटन्त्यथाकुला ७०
सकचाकर्षणचुम्बिताधरा ।
श्रममीलितचारुलोचना ७१
द्रवतां याति तदा ७२ विलासिनी ॥ ३६ ॥
श्लथदेहलतां ७३ समूर्च्छनां
दरसंमीलितलोचनोत्पलाम् ।
सभवेद्य नितान्तनिःसहा-
मवगच्छेदबलां ७४ द्रुतामिति ७५ ॥ ३७ ॥
करिणीं हरिणीं च गर्भिणीं
नवसूतामृतुयोगिनीं ७६ कृशाम् ।