सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 68, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 68

५६ अनङ्गरङ्गः [ दशमः
गच्छेत्पतिश्चेदिति कौर्मकं स्या-
दूर्ध्वोरुयुग्मात्परिवर्तिताख्यम् ⁵⁰ ॥२२॥
स्थितां स्त्रियं कुञ्चितपादयुग्मां ⁵¹
तथैव भर्ता कृततिर्यगङ्गः ।
भजेत चेत्कामकलाविदग्धा ⁵²
बन्धं तदा युग्मपदं वदन्ति ॥२३॥
विलासिनीकूर्परमध्यवर्ती
कटिं स्वकीयां भ्रमयन्मुहुश्चेत् ⁵³ ।
भजेत भर्तेति विमर्दितं ⁵⁴ स्या- ⁵⁵
तन्मार्कटं संमुखसंगमेन ॥२४॥
॥ अथ स्थितबन्धः ॥
संवेष्टयित्वा ⁵⁷ निजकूर्परेण
जान्वङ्गनाया अवलम्ब्य ⁵⁸ कण्ठम् ।
रतिं प्रकुर्यादिति कूर्पराख्यो
बन्धः प्रदिष्टः स च जानुपूर्वः ॥२५॥
उक्तप्रकारे करणे यद्येकः
पादो भवेदूर्ध्वगतो ऽङ्गनायाः ।
तदा प्रदिष्टो हरिविक्रमाख्यो
बन्धः प्रियो ऽयं तरुणीजनानाम् ॥२६॥
कण्ठं भुजाभ्यामवलम्ब्य भर्तुः
श्रोणिं निजोर्वोर्युगलेन गाढम् ।
संवेष्ट्य कुर्याद्रतमङ्गना चे-
दुक्तः कवीन्द्रैरिति कीर्तिबन्धः ॥२७॥