अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)
Ananga Ranga of Kalyanamalla with Commentary
महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा
पृष्ठ 67, कुल 112 में से
संदर्भ में पढ़ेंस्थलः ] अनङ्गरङ्गः ५५
यद्यङ्गनाकुञ्चितपादयुग्मं
स्वनाभिदेशे परिकल्प्य भर्ता ।
रतिं प्रकुर्यादिति कर्कटाख्यं
तदा कवीन्द्रैः³⁶ करणं प्रदिष्टम् ॥१७॥
॥ अथोपविष्टबन्धः ॥
प्रेङ्खाविलासं प्रसभं वहन्त्या
विपर्ययाज्जङ्घयुगस्य³⁷ नार्याः ।
पद्मासनं स्यादथ चैकजङ्घा-
विपर्ययादुपपदं³⁸ प्रदिष्टम् ॥१८॥
स्वजानुयुग्मान्तरनिर्गतौ चे-
द्भुजौ स्वकण्ठे निनयेन्मृगाक्षी³⁹ ।
कान्तो ऽपि कृत्वेति⁴⁰ विधिं प्रगच्छे-⁴¹
त्तदा बुधैर्बन्धुरिताख्य⁴² उक्तः ॥१९॥
उक्तप्रकारौ यदि दम्पती स्वौ
भुजौ तु कृत्वा निजकूर्परस्थौ ।
स्वैरं रमेते करणं प्रदिष्टं
तदा कवीन्द्रैः⁴⁴ फणिपाशसंज्ञम्⁴⁵ ॥२०॥
निधाय जङ्घायुगलं युवत्याः
स्वकीययोः कूर्परयोरथास्याः ।
कण्ठे स्वबाहू परिणीय गच्छे-
त्पतिस्तदा⁴⁶ संयमनाख्यमेतत्⁴⁷ ॥२१॥
मुखे मुखं⁴⁸ बाहुयुगे स्वबाहू⁴⁹
जङ्घाद्वये जङ्घयुगं निवेश्य ।