अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)
Ananga Ranga of Kalyanamalla with Commentary
महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा
पृष्ठ 66, कुल 112 में से
संदर्भ में पढ़ें३४ अनङ्गरङ्गः [दशमः
आनन्दकर्ता तरुणीजनानां
बन्धो ऽयमुक्तः किल जृम्भिताख्यः ॥११॥
कान्तोरुयुग्मं परिवर्तितं चे-
न्निष्पीड्य²³ कामाकुलचित्तवृत्तिः²⁴ ।
रमेत भर्ता यदि वेष्टिताख्यं²⁵
तमेव²⁶ बन्धं मुनयो वदन्ति ॥१२॥
स्कन्धप्रदेशे विनिधाय जङ्घा-
मेकां स्त्रियो ऽन्यामथ संविदार्य ।
अधो²⁷ विनीय प्रवलं²⁸ रमेत
भर्ता यदा वेणुविदारितं तत् ॥१३॥
विलासिनी²⁹ संहतमूरुयुग्मं
कृत्वोर्ध्वमालिङ्ग्य भजेत भर्ता ।
उद्द्रुमकः³⁰ स्यात्प्रमदाङ्घ्रियुग्मे
कान्तोरसिस्थे स्फुटनं³¹ प्रदिष्टम् ॥१४॥
॥ अथ तिर्यग्बन्धः ॥
कान्ताङ्घ्रिमेकं हृदये स्वकीये
निधाय भर्ता शयने द्वितीयम् ।
कुर्याद्रतिं चेदिति वीणिकाख्यः³²
प्रौढाङ्गनायाः परिकल्पनीयः³⁴ ॥१५॥
पार्श्वप्रसुप्तप्रमदोपरिस्थः³⁵
कान्तः समालिङ्ग्य रतिं करोति ।
यत्र प्रदिष्टो मुनिभिः पुराणै-
र्बन्धस्तदा संपुटनामधेयः ॥१६॥