सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 45, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 45

स्थलः ] अनङ्गरङ्गः ३३
मुद्रां कृत्वा तदेकान्ते³⁸ सप्ताहं धारयेत्सुधीः ।
पश्चान्निष्कास्य संपिष्य³⁹ वटीं⁴⁰ कृत्वा विशोषयेत् ॥१८॥
सा भक्षणविधानेन दीयमाना परस्परम् ।
दम्पत्योर्मोहजननी कीर्तिता वटिकोत्तमा ॥१९॥
॥ अथ लेपनविधिः ॥
यः स्वरेतः समादाय रतान्ते सव्यपाणिना ।
वामपादे⁴¹ स्त्रियो लिम्पेत्सा तस्य वशगा भवेत् ॥२०॥
या भोगशेषे कान्तस्य लिङ्गं वामाङ्घ्रिणा स्पृशेत् ।
यावदायुर्भवेद्दासः स तस्या⁴² नात्र संशयः ॥२१॥
कपोतविष्ठासिन्दूरमधुकैः⁴³ समभागकैः⁴⁴ ।
लिप्त्वा लिङ्गं भजेद्यां सा वशगा स्याद्वराङ्गना ॥२२॥
घनसारं सभल्लूकमेदं⁴⁵ च मधुना सह ।
पिष्ट्वा लिप्तध्वजो यां च भजेत्सा वशगा भवेत्⁴⁶ ॥२३॥
रोचना कनकं शम्भुबीजं कर्पूरचन्दने⁴⁷ ।
एभिर्विलिप्तलिङ्गो यां भजते सा वशीभवेत् ॥२४॥
॥ अथ धूपः ॥
चन्दनं कुङ्कुमं व्याधिं⁴⁹ कालाङ्गं कुसुमं जलम्⁵⁰ ।
देवदारुं⁵¹ च संपिष्य मधुना सह मिश्रयेत् ॥२५॥
चिन्तामणिरिति ख्यातो धूपः परममोहनः ।
एष प्रयुक्तो विधिना सर्वकार्याणि साधयेत् ॥२६॥
एला सर्जरसस्तार्क्ष्यं चन्दनं युवती वचा ।
शृङ्गी चैभिः⁵³ समैर्धूपात्सर्वं विश्वं⁵⁴ विमोहयेत् ॥२७॥
॥ अथ कामेश्वरमन्त्रः ॥
क्लीं⁵⁵ प्राक्कामेश्वरेत्युक्त्वा प्रणवादि ततो ऽमुकीम् ।
आनयाथानयेत्येवं⁵⁶ वशतां क्लीं ततः परम्⁵⁷ ॥२८॥