सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 37, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 37

स्थलः १] अनङ्गरङ्गः २९
जातीरसशिलाकुष्ठव्योषटङ्कणचूर्णकैः ।
तिलतैलयुतैर्लेपालिङ्गवृद्धिः प्रजायते ॥३३॥
सैन्धवं मरिचं कुष्ठं बृहती खरमञ्जरी ।
हयगन्धा यवा माषाः पिप्पली गौरसर्षपाः ॥३४॥
तिलतैलेन संपिष्य मधुरोद्वर्तनं बुधः ।
प्रयोजयेत्कर्णपालीस्तनलिङ्गविवर्धनम् ॥३५॥
भल्लातं कृष्णलवणं नलिनीदलमेव च ।
दग्ध्वा तद्भस्म बृहतीफलजेनाम्भसा सह ॥३६॥
महिषीगोमयैः पूर्वं घृष्ट्वा लिङ्गे विलेपयेत् ।
तत्क्षणान्मुसलाकारं दृढं चैव भवेदलम् ॥३७॥
लोध्रकासीसमातङ्गबलाकल्कैस्तिलोद्भवम् ।
तैलं संसाधितं लिङ्गयोनिकर्णविवर्धनम् ॥३८॥
॥ अथ योनिसंकोचनविधिः ॥
प्रौढानवप्रसूतानां श्लथं गुह्यं न रोचते ।
यूनामत्तस्तत्संकोचविधिं संक्षेपतो ब्रुवे ॥३९॥
सनालं कमलं पिष्ट्वा पयसा कारयेद्वटीम् ।
तां निधाय क्षणं योनौ वृद्धापि स्यात्कुमारिका ॥४०॥
देवदारुनिशायुग्मसरसीरुहकेसरैः ।
संलिप्तं मदनच्छत्रं संकोचं परमं व्रजेत् ॥४१॥
लिप्त्वा पिकाक्षबीजैश्च वारिपिष्टैः स्मरालयम् ।
नियमेन परं गाढं वराङ्गं लभतेऽङ्गना ॥४२॥
त्रिफलाधातकीपुष्पजम्बुत्वक्साबरेः समैः ।
मक्षौद्रैर्लिप्तगुह्या च कन्येव जरती भवेत् ॥४३॥
कटुतुम्बीभवैर्बीजैः सलोध्रैः स्मरमन्दिरम् ।
लिप्त्वा नवप्रसूतापि ध्रुवं कन्येव जायते ॥४४॥