अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
मध्ये हस्तचतुष्काढ्यं वेदिकायुक्तमायतम् ।। A.S.26.37a-b
ततः संकल्पयेद्देवं राममेव स्मरन्मुने। A.S.-26.38a-b
अस्यां रामनवम्यां च रामाराधनतत्परः ।। A.S.-26.39a-b
उपोष्याष्टसु यामेषु पूजयित्वा यथाविधि। A.S.-26.39c-d
इमां स्वर्णमयीं रामप्रतिमां च प्रयत्नतः। A.S.-26.40a-b
श्रीरामप्रीतये दास्ये रामभक्ताय धीमते। A.S.-26.40c-d
प्रीतो रामो हरत्वाशु पापानि सुबहूनि मे ।। A.S.-26.41a-b
अनेकजन्मसंसिद्धान्यभ्यस्तानि महान्ति च। A.S.-26.41c-d
ततः स्वर्णमयीं रामप्रतिमां पलमात्रतः ।। A.S.-26.42a-b
निर्मितां द्विभुजां दिव्यां वामाङ्कस्थितजानकीम्। A.S.-26.42c-d
बिभ्रतीं दक्षिणकरे ज्ञानमुद्रां महामुने ।। A.S.-26.43a-b
वामेनाधःकरेणाराद्देवीमालिङ्ग्य संस्थिताम्। A.S.-26.43c-d
सिंहासने राजतेऽत्र पलद्वयविनिर्मिते ।।' A.S.-26.44a-b
तथा-
‘अशक्तो यो महाभागः स तु वित्तानुसारतः। A.S.-27.2a-b
पलेनार्धतदर्धेन तदर्धार्धेन वा मुने ।। A.S.-27.2c-d
सौवर्णं राजतं वापि कारयेद्रघुनन्दम्। A.S.-28.25c-d
पार्श्वे भरतशत्रुघ्नौ धृतच्छत्रकरावुभौ ।। A.S.-28.26a-b
चापद्वयसमायुक्तं लक्ष्मणं चापि कारयेत्। A.S.-28.26c-d
दक्षिणाङ्गे दशरथं पुत्रावेक्षणतत्परम् ।।
मातुरङ्कगतं राममिन्द्रनीलसमप्रभम्। A.S.-28.27a-b
पञ्चामृतस्नानपूर्वे संपूज्य विधिवत्ततः ।।
कौसल्यामन्त्रस्तु-
‘रामस्य जननी चासि रामरूपमिदं जगत्।
अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ।।
नमो दशरथायेति पूजयेत् पितरं ततः ।।'
अत्र दशावरणपञ्चावरणादिपूजाऽन्यत्र ज्ञेया।
'अशोककुसुमैर्युक्तमर्घ्यं दद्याद्विचक्षणः।
दशाननवधार्थाय धर्मसंस्थापनाय च ।। A.S.-28.36a-b
राक्षसानां विनाशाय दैत्यानां निधनाय च। A.S.-28.36c-d
परित्राणाय साधूनां जातो रामः स्वयं हरिः ।। A.S.-28.37a-b
(244) अगस्त्य-संहिता
गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितोऽनघ।| A.S.-28.37c-d
पुष्पाञ्जलिं पुनर्दत्त्वा यामे यामे प्रपूजयेत्।।
दिवैवं विधिवत्कृत्वा रात्रौ जागरणं ततः।
ततः प्रातः समुत्थाय स्नानसन्ध्यादिकाः क्रियाः।। A.S.-26.51a-b
समाप्य विधिवद्रामं पूजयेद्विधिवन्मुने। A.S.-26.51c-d
ततो होमं प्रकुर्वीत मूलमन्त्रेण मन्त्रवित्।। A.S.-26.52a-b
पूर्वोक्तपद्मकुण्डे वा स्थण्डिले वा समाहितः। A.S.-26.52c-d
लौकिकाग्नौ विधानेन शतमष्टोत्तरं ततः।। A.S.-26.53a-b
साज्येन पायसेनेव स्मरन् राममनन्यधीः। A.S.-26.53c-d
ततो भक्त्या सुसंतोष्य आचार्यं पूजयेन्मुने।। A.S.-26.54a-b
ततो रामं स्मरन् दद्यादेवं मन्त्रमुदीरयेत्। A.S.-26.55c-d
“इमां स्वर्णमयीं रामप्रतिमां समलंकृताम्।। A.S.-26.56a-b
चित्रवस्त्रयुगच्छन्नां रामोऽहं राघवाय ते। A.S.-26.56c-d
श्रीरामप्रीतये दास्ये तुष्टो भवतु राघवः।।” A.S.-26.57a-b
इति दत्त्वा विधानेन दद्याद्वै दक्षिणां भुवम्। A.S.-26.58c-d
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः।।” A.S.-26.60c-d
इति।
(245)
परिशिष्ट 2
'रामतापिनीयोपनिषद्' में उद्धृत रामोपासना की फलश्रुति
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः। A.S.-19.1^(c-d)
वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ।।4।। A.S.-19.2^(a-b)
गाणपत्यादिमन्त्रेषु कोटिकोटिगुणाधिकः। A.S.-19.2^(c-d)
मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ।।5।। A.S.-19.3^(a-b)
षडक्षरोऽयं मन्त्रः स्यात् सर्वाघौघनिवारणः। A.S.-19.3^(c-d)
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ।।6।। A.S.-19.4^(a-b)
कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम्। A.S.-19.4^(c-d)
सर्व दहति निःशेषं तूलराशिमिवानलः ।।7।। A.S.-19.5^(a-b)
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च। A.S.-19.5^(a-b)
स्वर्णस्तेयसुरापानगुरूल्पायुतानि च ।।8।। A.S.-19.6^(c-d)
कोटिकोटिसहस्राणि उपपातकजान्यपि। A.S.-19.7^(a-b)
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ।।9।। A.S.-19.7^(c-d)
भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः। A.S.-19.8^(a-b)
दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ।।10।। A.S.-19.8^(c-d)
ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम्।
कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ।।11।।
ग्राम्यारण्यपशुघ्नत्वं संचितं दुरितं च यत्। A.S.-24.35c-d
मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ।।12।। A.S.-24.37^(a-b)
अभक्ष्यभक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम्। A.S.-24.37^(c-d)
सर्व विलीयते राममन्त्रस्यास्यैव कीर्तनात् ।।13।। A.S.-24.38^(a-b)
श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम्। A.S.-24.38^(c-d)
रत्नादेश्चापहारेण तदप्याशु विनाशयेत् ।।14।। A.S.-24.39^(a-b)
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्विषम्।
(246) अगस्त्य-संहिता
संचिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् ।। 15 ।।
गत्वापि मातरं मोहादगम्यैश्च योषितः। A.S.-24.39c-d
उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ।। 16 ।। A.S.-24.40a-b
महापातकपापिष्ठसङ्गत्या संचितं च यत्। A.S.-24.40c-d
नाशयेत्तत्कथालापशयनासनभोजनैः ।। 17 ।। A.S.-24.41a-b
पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत्। A.S.-24.41c-d
तदनुष्ठानमात्रेण सर्वमेतद्विलीयते ।। 18 ।। A.S.-24.44a-b
यत्प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि। A.S.-24.45c-d
नैवापनोद्यते पापं तदप्याशु विनाशयेत् ।। 19 ।। A.S.-24.46a-b
पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयं। A.S.-24.46c-d
बुद्धिपूर्वमघं कृत्वा तदप्याशु विनाशयेत् ।। 20 ।। A.S.-24.47a-b
कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि।
पापं च नापनोद्यं यत्तदप्याशु विनाशयेत् ।। 21 ।।
आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि। A.S.-24.47c-d
किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ।। 22 ।। A.S.-24.48a-b
अवस्थात्रितयेष्वेव बुद्धिपूर्वमघं च यत्।
तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ।। 23 ।।
अवस्थात्रितयेष्वेवं मूलबन्धमन्त्रं च यत्।
तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ।। 24 ।।
आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भवाः। A.S.-21.10a-b
स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशितः।। 25 ।। A.S.-21.10c-d
येषु येष्वपि देशेषु रामभद्र उपास्यते। A.S.-21.11c-d
दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ।। 26 ।। A.S.-21.12a-b
शान्तः प्रसन्नवदनो ह्यक्रोधो भक्तवत्सलः। A.S.-21.12c-d
अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ।। 27 ।। A.S.-21.13a-b
सम्यगाराधितो रामः प्रसीदत्येव सत्वरम्। A.S.-21.13c-d
ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ।। 28 ।। A.S.-21.14a-b
(247)
परिशिष्ट 3
'अगस्त्य-संहिता' से उद्धृत रामनवमी-व्रत-कथा
पाण्डुलिपि 'अ' में लिखित रामनवमीपूजा विधि
अथ रामनवमीपूजाविधिः। सुवर्णप्रतिमां कारयित्वा मृण्मयीं वा प्रातः
कृतनित्यक्रियः आचम्य पूर्व्ववत् ताम्रपात्रमादाय उदङ्मुख उत्तिष्ठन् ॐ भगवन् सूर्य्य
भगवत्यो देवता यूयमत्र साक्षिण्योऽद्यादिप्रतिवत्सरं चैत्रशुक्लनवम्यां
श्रीरामनवमीव्रतमहमाचरिष्यामीति निवेद्य कुशत्रय-तिल-जलान्यादाय सङ्कल्पङ्कुर्य्यात्।
ॐ कुलकोटिसमुद्धरणपूर्व्वक-विष्णुलोकमहितत्त्व-कामनया अद्यादि-प्रतिवत्सरं
चैत्रशुक्लनवम्यां भगवन्तं ससीतलक्ष्मणराममहं पूजयिष्ये।
ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञꣳसमिमं दधातु।
विश्वेदेवास इह मादयन्तामों प्रतिष्ठ। । ३ॐ ससीतरामलक्ष्मण इह सुप्रतिष्ठितो भव।
इति प्राणप्रतिष्ठां कुर्यात्।
ततो दूर्वादलश्यामं पद्मपत्राक्षं पीतवाससम् द्विभुजं धनुर्द्धरं कवचिनं ध्यात्वा
रां रामाय नम इति स्नपनं ॐ भूर्भुवःस्वर्भगवन् राम इहागच्छ इह तिष्ठेत्यावाह्य
स्नापयित्वा
ॐ सीतापते नमस्तुभ्यं रावणस्यान्तकारक।
गृहाणार्घ्यं मया दत्तं कौशल्यानन्दवर्द्धन।।
एषोर्घ्यः रां रामाय नमः। इदमनुलेपनं ३। एते तिलाः। एते यवाः रां
रामाय नमः। पुष्पाण्यादाय
सीतापते नमस्तुभ्यं रावणस्यान्तकारक।
गृहाण कुसुमं देव कौशल्यानन्दवर्द्धन।।
एतानि पुष्पाणि रां रामाय नमः।
(248) अगस्त्य-संहिता
इमे यज्ञोपवीते बृहस्पतिदैवते रां (रामाय नमः।) इदं वस्त्रं बृहस्पति दैवतं
रां (रामाय नमः।)
एतानि गन्धपुष्पधूपदीप्ताम्बूलनैवेद्यानि रां रामाय नमः।
ॐ सीते इहागच्छ इह तिष्ठ। तत्रार्घदानमन्त्रः-
ॐ सीते देवि नमस्तुभ्यं रामचन्द्रप्रिये सदा।
गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।
एषोऽर्घ्यः ॐ सीतायै नमः। एवं पञ्चोपचारैः पूजयेत्।
तथैव कौशल्यां पूजयेत्। कौशल्ये इहागच्छ इह तिष्ठ। अर्घ्यदानमन्त्रः-
ॐ कौशल्ये प्रणमामि त्वां राममातः सुशोभने।
अदिते त्वं गृहाणार्घ्यं वरदा भव सर्वदा।।
एषोऽर्घ्यः ॐ कौशल्यायै नमः। एवं पञ्चोपचारैः पूजयेत्।
ततः ॐ कैकेयि इहागच्छ इह तिष्ठ।
ॐ कैकेयि प्रणमामि त्वां रावणस्यान्तकारिणि।
गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।
एषोऽर्घ्यः ॐ कैकेय्यै नमः। एवं चन्दनादिना पूजयेत्।
ततः सुमित्रापूजा।
ॐ सुमित्रे इहागच्छ इह तिष्ठ।
ॐ सुमित्रे त्वां नमस्यामि शेषमातर्नमोऽस्तु ते।
गृहाणार्घ्यं मया दत्तं वरदा भव सुन्दरि।।
एषोऽर्घ्यः ॐ सुमित्रायै नमः। एवं चन्दनादिना पूजयेत्।
ॐ दशरथ इहागच्छ इह तिष्ठ।
ॐ अजपुत्र महाबाहो श्रीमद्दशरथ प्रभो।
गृहाणार्घ्यं मया दत्तं रामतात नमोऽस्तु ते।।
एषोऽर्घ्यः ॐ दशरथाय नमः। एवं पूजयेत्।
ॐ भरत इहागच्छ इह तिष्ठ।
ॐ दाशरथे त्वां नमस्यामि रामभक्त नृपात्मज।
मया समर्पितं तुभ्यमर्घोऽयं प्रतिगृह्यताम्।।
एषोऽर्घ्यः ॐ भरताय नमः।
ॐ लक्ष्मण इहागच्छ इह तिष्ठ।
ॐ लक्ष्मणत्वं महाबाहो इन्द्रजिद्वधकारक।
गृहाणार्घ्यं मया दत्तं सुमित्रातनय प्रभो।।
एषोऽर्घ्यः ॐ लक्ष्मणाय नमः। एवं पूजयेत्।
परिशिष्ट 3 (249)
ॐ शत्रुघ्न इहागच्छ इह तिष्ठ।
ॐ शत्रुघ्न प्रणमामि त्वां लवणस्यान्तक प्रभो।
गृहाणार्घ्यं मया दत्तं रामभक्तं प्रयच्छ मे।।
एषोऽर्घ्यः ॐ शत्रुघ्नाय नमः।
एताँयँथोक्तविधिना पञ्चोपचारैः पूजयेत्। ततः प्रत्येकमपरे पूजनीयाः।
ॐ सुग्रीव इहागच्छ इह तिष्ठ।
ॐ सुग्रीवाय नमस्तुभ्यं दशग्रीवान्तकप्रिय।
गृहाणार्घ्यं महावीर किष्किन्धानाय़क प्रभो।।
एषोर्घ्यः ॐ सुग्रीवाय नमः। एवं पूजयेत्।
ॐ हनुमन् इहागच्छ इह तिष्ठ।
ॐ कूर्मकुम्भीरसंकीर्णस्वात्तीर्णोऽसि महार्णवम्।
हनूमते नमस्तुभ्यं गृहाणार्घ्यं महामते।।
एषोर्घ्यः ॐ हनूमते नमः। एवं पूजयेत्।
विभीषण अंगद धृष्टि जय विजय जयन्त सुराष्ट्र राष्ट्र अशेष नल नील
द्वारपाल सुमन्त एते सचिवाः पूज्याः। ततो वज्र दण्ड पाश खड्ग शूल अम्बुज चक्र
शङ्ख गदा शार्ङ्ग बाण वसिष्ठ वामदेव जाबालि गौतम विष्क्सेनप्रभृतयः पूजनीयाः।
एवम्।
पाण्डुलिपि 'आ' में लिखित रामनवमीपूजा विधि
(1) राम (15) नल
(2) सीता (16) नील
(3) लक्ष्मण (17) धृष्ट
(4) दशरथ (18) जय
(5) कौशल्या (19) विजय
(6) कैकेयी (20) सुराष्ट्र
(7) सुमित्रा (21) राष्ट्र
(8) भरत (22) कोपन
(9) शत्रुघ्न (23) अकोपन
(10) सुग्रीव (24) सुमन्त्र
(11) हनुमान् (25) इन्द्रादिदशदिक्पाल
(12) जाम्बवान् (26) अनन्त
(13) विभीषण (27) ब्रह्मा
(14) अंगद
(250) अगस्त्य-संहिता
ततोऽत्र पूजयेत् पुष्पाक्षतैः ॐ वज्राय नमः, ॐ शक्त्यै नमः, ॐ
दण्डाय नमः, ॐ शङ्खाय नमः, ॐ पाशाय नमः, ॐ गदाय नमः, ॐ शूलाय
नमः, ॐ चक्राय नमः, ॐ पद्माय नमः, ॐ अङ्कुशाय नमः। ततः
सूर्यादिनवग्रहाः इति।
अथ घृतदीपम्।
नमोऽस्यां रात्रौ चैत्रशुक्लरामनवम्यां सकलपापविनिर्म्मुक्तिपूर्व्वक-ज्योतिष्मद्
विमानकरणक-विष्णुलोकगमनकामनयामुं घृतदीपं श्रीरामचन्द्रायहन्ददे॥
प्राणप्रतिष्ठामन्त्रः। ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं
यज्ञग् समिमं दधातु। विश्वेदेवास इह मादयन्तामों प्रतिष्ठ।।। श्रीरामचन्द्र
साङ्ग-सायुध-सवाहन-सपरिवार इह सुप्रतिष्ठितो भव। इति
छन्दोगानां प्राणप्रतिष्ठामन्त्रः ॐ वाङ्मनः प्राणापानौ व्यान चक्षुः श्रोत्रं
शर्म्मवर्म्मभूतिः प्रतिष्ठा ॐ श्रीरामचन्द्र साङ्ग-सायुध-सवाहन-सपरिवार इह
सुप्रतिष्ठितो भव॥
पुष्पाञ्जलिं गृहीत्वोपविश्य-
नमो नमस्ते देवेश सुरासुरपते जय।
जय कामद भक्तानां जय दाशरथे प्रभो।।
जय सीतापते नाथ जय भग्नेशकार्मुक।
जब ब्रह्माण्डखण्डेश जय रावणमर्द्दन।।
जय बालिकपीशघ्न जय सुग्रीवराज्यद।
जय द्विजगणानन्द जय वायुसुतप्रिय।।
इति संकीर्त्य देवेशं प्रणिपत्य पुनः पुनः।
सर्वान् कामानवाप्नोति ततो मोक्षमवाप्नुयात्।।
एष पुष्पाञ्जलिः नमो भगवते श्रीरामचन्द्राय नमः।।
।। श्रीरामचन्द्राय नमः।।
अथ रामनवमीपूजाविधिः
मृण्मयीं प्रतिमां विधाय ॐ रामोऽसीति नाम कृत्वा ॐ
मनोजूतिरित्य़ादिमन्त्रेण प्रतिष्ठां कृत्वा रामं ध्यायेत्-
कोमलाङ्गं विशालाक्षमिन्द्रनीलसमप्रभम्।
दक्षिणांशे दशरथं पुत्रावेक्षणतत्परम्।।
परिशिष्ट 3 (251)
पृष्ठतो लक्ष्मणन्देवं सैच्छत्रं कनकप्रभम्।
पार्श्वे भरत शत्रुघ्नौ तालवृन्तकरावुभौ॥
अग्रेऽप्यग्रं हनूमन्तं रामानुग्रहकांक्षितम्।
एवं ध्यात्वा प्रतिमां स्वशाखोक्तविधिना संस्थापयेत्।
ॐ इन्द्राग्निर्यमश्चैव निर्ऋतोवरुणोऽनिलः।
कुबेर ईशो ब्रह्मा च दिक्पालाः स्नापयन्तु ते॥
इत्यनेन स्नापयेत्।
ततो यवमादाय ॐ ह्रौं श्रीं महावीर समरवीरपते श्रीरामचन्द्र इहागच्छ
इह तिष्ठ इत्यावाह्य स्थापयित्वा फल-पुष्पाम्बुसम्पूर्ण-चूताशोक-तुलसीदल-
संयुक्तमुज्ज्वलं शङ्खं गृहीत्वा।
दशग्रीवविनाशाय जातोऽसि रघुनन्दन।
गृहाणार्घ्यं मया दत्तं प्रसीद परमेश्वर॥
एषोऽर्घ्यः भगवते श्रीरामचन्द्राय नमः।
सुगन्धिचन्दनं दिव्यं कर्पूरादिमिश्रितम्।
सीतया भार्य्यया सार्द्धं रक्षोघ्नं परिगृह्यताम्॥
इदमनुलेपनं भगवते श्रीरामचन्द्राय नमः।
पुष्पमादाय
पुष्पन्तु परं दिव्यं पुण्यं सुरभिसंयुतम्।
गृहाण परया भक्त्या मया दत्तं जगत्पते॥
इदं पुष्पं भगवते श्रीरामचन्द्राय नमः।
ततो यज्ञोपवीतमादाय
श्रीरामविबुधाधीश सुरासुरवरप्रद।
यज्ञोपवीतं मद्दत्तं परिधत्स्व रघुनन्दन॥
इमे यज्ञोपवीते बृहस्पतिदैवते भगवते श्री रामचन्द्राय नमः।
ततो वासोयुगलमादाय
ॐवासो युगं गृहाणेश तन्तुसन्तानकल्पितम्।
सीतया भार्य्यया सार्द्धं रक्षोघ्नं परिधीयताम्॥
इमे वासोयुगे बृहस्पतिदैवते भगवते श्रीरामचन्द्राय नमः।
ॐरामचन्द्र सुरश्रेष्ठ जानक्या भ्रातृभिः सह।
पूजितोऽसि मया देव धूपोऽयं प्रतिगृह्यताम्॥
एष धूपः भगवते श्रीरामचन्द्राय नमः।
(252) अगस्त्य-संहिता
ॐ मारीचघ्न महाबाहो सङ्ग्रामव्यसन प्रभो।
दीपोऽयं गृह्यतां देव त्रैलोक्यध्वान्तनाशनः॥
एष दीपः भगवते श्रीरामचन्द्राय नमः।
इदं ताम्बूलं भगवते श्रीरामचन्द्राय नमः।
नैवेधं फल पक्वान्नं शर्कराघृतपाचितम्।
गृहाण जगतां सर्व्वैर्बन्धुजनैस्सह॥
एतानि नैवेधानि ॐ भगवते श्रीरामचन्द्राय नमः।
ॐ नमस्ते पुण्डरीकाक्ष त्राहि मां भवसागरात्।
सर्वपापप्रणाशार्थं दण्डवत् प्रणमाम्यहम्॥
इत्यनेन दण्डवत् प्रणामं कुर्य्यात्।
ॐ यानि कानि कृतानीह पापानि मम जन्मनि।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे॥
अनेन मन्त्रेण प्रदक्षिणं कुर्य्यात्। ततः उपविश्य पठेत्।
ॐ नमस्ते देव देवेश सुरासुरपते जय।
जय कामद भक्तानां जय दाशरथे प्रभो॥
जय सीतापते नाथ जय भग्नेशकार्मुक।
जय ब्रह्माण्ड खण्डेश जय रावणमर्द्दन॥
जय बालीकपीशघ्न जय सुग्रीवराज्यद।
जय द्विजगणानन्द जय वायुसुतप्रिय॥
इति संकीर्त्य देवेशं प्रणिपत्य पुनः पुनः।
सर्वान् कामानवाप्नोति ततो मोक्षमवाप्नुयात्॥
एष पुष्पाञ्जलिः नमो भगवते श्रीरामचन्द्राय नमः।
ततः सीतापूजा।
ॐ सीते इहागच्छ इह तिष्ठ इत्यावाह्य
ॐ दशाननविनाशाय जाता धरणिसंभवा।
मैथिली शीलसम्पन्ना पातु नः पतिदेवता॥
एषोऽर्घ्यः ॐ सीतायै नमः। इदमनुलेपनम्। इदं सिन्दूरम्। इदमक्षतम्। इदं
पुष्पम्। एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-नैवेद्यानि ॐ सीतायै नमः।
ततो लक्ष्मण इहागच्छ इह तिष्ठ इत्यावाह्य
ॐ निहतो रावणियेन शक्रजिच्छत्रुघातिना।
सः पातु लक्ष्मणो धन्वी सुमित्रानन्दवर्द्धन॥
एषोऽर्घ्यः भगवते श्री लक्ष्मणाय नमः।
परिशिष्ट 3 (253)
ततोऽष्टदलमध्ये पूर्वदले ॐ दशरथ इहागच्छ इह तिष्ठेत्यावाह्य
ॐ नानाविधगुणागार गृहाणार्घ्यं नृपोत्तम।
रविवंशप्रदीपाय नमो दशरथाय वै॥
एषोऽर्घ्यः दशरथाय नमः।
एवं गन्धादिना पूजयेत्। आग्नेयदले कौशल्यामावाहयेत्।
ॐ कौशल्ये इहागच्छ इह तिष्ठ।
ॐ गृहाणार्घ्यं मया देवि रम्ये दशरथप्रिये।
जगदानन्दवन्द्यायै कौशल्यायै नमो नमः॥
एषोऽर्घ्यः कौशल्यायै नमः। इदमनुलेपनम्। इदं सिन्दूरम्। इदमक्षतम्।
इत्यादिना पूजयेत्।
याम्यदले कैकेयि इहागच्छ इह तिष्ठ।
ॐ दृढप्रतिज्ञे कैकेयि मातर्भरतवन्दिते।
गृहाणार्घ्यं महादेवि रक्ष मां भक्तवत्सले॥
एषोऽर्घ्यः कैकेय्यै नमः। इदमनुलेपनम्। इदं सिन्दूरम्। इदमक्षतम्। इत्यादिना
पूजयेत्।
नैर्ऋत्यदले सुमित्रे इहागच्छ इह तिष्ठ।
ॐ शुभलक्षणसम्पन्ने लक्ष्मणानन्दकारिणि।
सुमित्रं देहि मे देवि सुमित्र्यै वै नमो नमः॥
एषोऽर्घ्यः सुमित्रायै नमः। एवं गन्धादिना पूजयेत्।
पश्चिमदले भरत इहागच्छ इह तिष्ठ।
ॐ भक्तवत्सल भक्त्यात्म रामभक्तिपरायण।
भक्त्या दत्तं गृहाणार्घ्यं भरताय नमो नमः॥
ॐ एषोऽर्घ्यः ॐ भरताय नमः। इदमनुलेपनेम्। एते तिलाः। इदं पुष्पम्।
एवं पूजयेत्।
ततः वायव्यदले शत्रुघ्न इहागच्छ इह तिष्ठ।
ॐ लवणान्तक शत्रुघ्न शत्रुकाननपावक।
गृहाणार्घ्यं मया दत्तं प्रसीद कुरु मे शुभम्॥
एषोऽर्घ्यः ॐ शत्रुघ्नाय नमः। एवं गन्धादिना पूजयेत्।
उत्तरदले सुग्रीव इहागच्छ इह तिष्ठ।
ॐ सुग्रीवाय नमस्तुभ्यं दशग्रीवान्तकप्रिय।
गृहाणार्घ्यं महावीर किष्किन्धानायक प्रभो॥
एषोर्घ्यः ॐ सुग्रीवाय नमः।
(254) अगस्त्य-संहिता
ईशानदले ॐ हनुमन्निहागच्छ इह तिष्ठ।
ॐ कूर्मकुम्भीव संकीर्णमुत्तीर्णोऽसि महार्णवम्।
हनूमते नमस्तुभ्यं गृहाणार्घ्यं महामते॥
एषोऽर्घ्यः ॐ हनुमते नमः। एवं चन्दनादिना पूजयेत्।
ततो विभीषण इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ विभीषणाय नमः। इति
पूजयेत्।
ॐ जाम्बवान् इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ जाम्बवते नमः इति
पूजयेत्।
ॐ अंगद इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ अङ्गदाय नमः। एवं
पूजयेत्।
ॐ नल इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ नलाय नमः। एवं पूजयेत्।
ॐ नील इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ नीलाय नमः। एवं पूजयेत्।
ततोऽष्टदलमध्ये धृष्टे इहागच्छ इह तिष्ठ। एषोऽर्घ्यः धृष्ट्यै नमः।
ॐ जय इहागच्छ इह तिष्ठ। एषोऽर्घ्यः जयाय नमः।
ॐ विजय इहागच्छ इह तिष्ठ।
ॐ सुराष्ट्र इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ सुराष्ट्राय नमः।
ॐ राष्ट्रवर्द्धन इहागच्छ इह तिष्ठ। एषोऽर्घ्यः राष्ट्रवर्द्धनाय नमः।
ॐ अकोपन इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ अकोपाय नमः।
ॐ धर्मपाल इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ धर्मपालाय नमः।
ॐ सुमन्तो इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ सुमन्ताय नमः।
दलाग्रे ॐ लोकपाल इहागच्छ इह तिष्ठ। एषोर्घ्यः लोकपालाय नमः। एवं
संपूजयेत्।
ॐ इन्द्र इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ इन्द्राय नमः। एवं पूजयेत्।
ॐ अग्ने इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ अग्नये नमः।
ॐ यम इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ यमाय नमः।
ॐ निर्ऋते इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ निर्ऋतये नमः।
ॐ वरुण इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ वरुणाय नमः।
ॐ वायो इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ वायवे नमः।
ॐ कुबेर इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ कुबेराय नमः।
ॐ ईशान इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ ईशानाय नमः।
दिशादिकपालयोर्मध्येऽनन्तपूजा। ॐ अनन्त इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ
परिशिष्ट 3 (255)
अनन्ताय नमः।
इन्द्रेशानयोर्मध्ये ब्रह्मन् इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ ब्रह्मणे नमः।
ततोऽस्त्राणि पूजयेत्। ॐ वज्राय नमः। ॐ शक्त्यै नमः। ॐ दण्डाय नमः ॐ
खड्गाय नमः। ॐ पाशाय नमः। ॐ अङ्कुशाय नमः। ॐ गदायै नमः। ॐ
शूलाय नमः। ॐ चक्राय नमः। ॐ पद्माय नमः। पुष्पाक्षतैः पूजयेत्।
ॐ सूर्यादिनवग्रहाः इहा गच्छत इह तिष्ठत। एषोऽर्घ्यः ॐ सूर्यादिनवग्रहेभ्यो
नमः। इति गन्धादिभिः पूजयेत्। प्रभातसमये विसर्जनम् कुर्यात्।
तद्यथा-
देवदेव महाबाहो दशग्रीवनिकृन्तन।
गृहीत्वा मत्कृतां पूजां स्वस्थानं गच्छ ते नमः॥
मम कृतां देव पूजां सौभाग्यसुखदान्तथा।
गृहीत्वा गच्छ स्वस्थानमपराधं क्षमस्व मे॥
न्यूनाधिकं च यत्किञ्चिन्नवम्यां च यत्कृतम्।
कृपां मयि विधायेत्थं क्षमस्व पुरुषोत्तम॥
रामचन्द्र सुराधीश वैकुण्ठं व्रज पार्थिव।
पूजां मदीयामादाय मम स्वस्तिकरो भव॥
ॐ रूपन्देहि यशो देहि भाग्यं भगवन् देहि मे।
धर्मान्देहि धनन्देहि सर्वान् कामान् प्रदेहि मे॥
इति प्रणमेत्।
यान्तु देवगणाः सर्वे पूजामादायमामकीम्।
इष्टकामप्रसिद्धर्थं पुनरागमनाय च॥
श्रीरामचन्द्र पूजितोऽसि प्रसीद इति विसर्जयेत्।
ततो लक्ष्मणादयो देवाः पूजिताः स्थः क्षमध्वमिति तान् विसर्जयेत्।
ॐ अद्य कृतैतद्रामनवम्यां ससीतश्रीरामलक्ष्मणादिपूजनप्रतिष्ठार्थमिदं
हिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे।
मृण्मयीञ्च महानद्यां विसर्जयेत्। ततः स्नात्वा नित्यं च विधाय
ब्राह्मणान् भोजयित्वा तेभ्यो दक्षिणान्दत्वा स्वयं भुञ्जीत इति पूजाविधिः।
(256) अगस्त्य-संहिता
अथ कथा
प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः।
उपोषणं न कुरुते कुम्भीपाकेषु पच्यते¹ ।।1।।
यत्किंचिद्राममुद्दिश्य नो ददाति स्वशक्तितः।
रौरवेषु स मूढात्मा² पच्यते³ नात्र संशयः।।2।।
पीताम्बराणि⁴ देवाय प्रार्थितान्यर्पयेत्सुधीः।
स्वर्णयज्ञोपवीतानि दद्याद्देवाय भक्तितः।।3।।
नानारत्नविचित्राणि दद्यादाभरणानि च।
हिमाम्बुघृष्टरुचिरघनसारसमन्वितम् ।।4।।
गन्धं दद्यात्प्रयत्नेन सागुरुं च सकुङ्कुमम्।
मूलमन्त्रेण सकलानिपुचारान्प्रकल्पयेत्।।5।।
कह्लारकेतकीजातीपुन्नागाद्यैः प्रपूजयेत्।
चम्पकैः शतपत्रैश्च सुगन्धैः सुमनोहरैः।।6।।
घण्टां च वादयन्⁵ धूपं दीपं चास्मै समर्पयेत्।
भक्ष्यभोज्यादिकं भक्त्या देवाय⁶ विधिनार्पयेत्।⁷।7।।
एवं सोपस्करं देवं ⁷दत्वा पापैः प्रमुच्यते।
जन्मकोटिकृतैः घोरैर्नानारूपैः सुदारुणैः।।8।।
विमुक्तस्तत्क्षणादेव⁸ राम एव भवेन्मुने।
श्रद्धाधानस्य ते प्रोक्तं⁹ श्रीरामनवमीव्रतम्।।9।।
सर्वलोकहितार्थाय पवित्रं पापनाशनम्।¹⁰
लौहेन निर्मितं चापि शिलया दारुणापि वा।।10।।
येन केन प्रकारेण यस्मै कस्मै क्रमान्मुने।¹¹
चैत्रशुक्लनवम्यां तु दत्वा विप्राय भक्तितः।।11।।
सर्वपापविनिर्मुक्तो भवेदेव न संशयः।
तस्मिन् दिने महापुण्ये स्नानदानादिकं मुने।।12।।
कृतं सर्वप्रयत्नेन यत्किंचिदपि भक्तितः।
महादानादितुल्यं स्याद्रामोद्देशेन यत्कृतम्।।13।।
वित्तसाठ्यन्न कर्तव्यं सर्वं कुर्यात्स्वभक्तितः।
तस्मिन् दिने महापुण्ये प्रातारभ्य भक्तितः।।14।।
- मज्जति। 2. समारूढा। 3. पच्यन्ते। 4. चीराम्बराणि। 5 वाद्येत्। 6. दद्याद्देवाय।
- अधिक पाठ – ब्राह्मणाय निवेदयेत्। अनेन विधिना कुर्यात्। ।8. मुच्यते तत्क्षणादेव।
- भक्त्या त्वयि संप्रोक्तं। 10. यः कुर्याद्विधिवत्प्राज्ञो राम एव न संशयः। 11. च वा मुने।
परिशिष्ट ३ (257)
जपेदेकान्त आसीनो यावत्स्याद्दशमीदिनम्।
तेनैव स्यात्पुरश्चर्य्या दशम्यां भोजयेद् द्विजान्।।15।।
भक्ष्यभोज्यैर्बहुविधैर्दद्याच्छक्त्या च दक्षिणाम्।
कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति।।16।।
तूष्णीं तिष्ठन्नरो याति पुनरावृत्तिवर्जितः।
द्वादशाब्दशतेनापि¹ यत्पापं नापपद्यते²।।17।।
विलयं याति तत्सर्वं श्रीरामनवमीदिने।
मुमुक्षवोऽपि सदा राम श्रीरामनवमीव्रतम्।।18।।
न त्यजन्ति सुरश्रेष्ठो देवेन्द्रोऽपि विशेषतः³।
तस्मात्सर्वात्मना सर्वे कृत्वैव नवमीव्रतम्⁴।।19।।
मुच्यते सर्वपापेभ्यो यान्ति ब्रह्म सनातनम्।
अथ पूजां प्रवक्ष्यामि ब्रह्मोक्तां सुरपूजिताम्।20।।
सीते देवि नमस्तुभ्यं रामचन्द्रप्रिये सदा।
गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।21
कौशल्ये प्रणमामि त्वां राममातः सुशोभने।
अदिते त्वं गृहाणार्घ्यं वरदा भव सर्व्वदा।।22।।
कैकेयि प्रणमामि त्वां रावणस्यान्तकारिणि।
गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।23।।
सुमित्रे त्वां नमस्यामि शेषमातर्नमोऽस्तु ते।
गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।24।।
अजपुत्र महाबाहो श्रीमद्दशरथ प्रभो।
गृहाणार्घ्यं मया दत्तं रामतात नमोऽस्तु ते।।25।।
सीतापते नमस्तुभ्यं रावणस्यान्तक प्रभो।
गृहाणार्घ्यं मया दत्तं कौशल्यानन्दवर्द्धन।।26।।
दाशरथे नमस्यामि रामभक्तिन् नृपात्मज।
मया समर्पितं तुभ्यमर्घ्योऽयं प्रतिगृह्यताम्।।27।।
लक्ष्मण त्वं महाबाहो इन्द्रजिद्वधकारक।
गृहाणार्घ्यं मया दत्तं ⁵सुमित्रानतनय प्रभो।।28।।
नारिकेरैश्च कूष्माण्डैर्मातुलङ्गैः सपूगकैः।
दद्यादर्घ्यं सुरेशाय रामाय वरदायिने।।29।।
- द्वादशाब्दकृतं पापं। 2.नानुमुच्यते। 3.देवेन्द्रास्वानशंसयः। 4.तद्वत्सर्वात्मना
सर्वैः कृतञ्च नवमीव्रतम्। 5 यहाँ से 8 चरण 'अ' में खण्डित।
(258) अगस्त्य-संहिता
हनुमद् वायुतनय रावणस्यान्तकारक।
गृहाणार्घ्यं मया दत्तं रामभक्तिं प्रयच्छ मे।।३०।।
लब्ध्वा सुतौ त्वया राम प्राप्तं सुखमनूत्तमम्।
तथा मां सुखितं देव कुरुष्व त्वां नमाम्यहम्।।३१।।
अवतीर्य त्वया देव वायुपुत्रासुरान्तक।
अवतारय मां भक्तं भवसिन्धुसुदुस्तरात्।।३२।।
पापिनो हि नो रामं प्राप्यन्ते चात्र संशयः।
चैत्रशुक्लनवम्यान्तु भुञ्जन्ते ये नराधमाः।।३३।।
पच्यन्ते रौरवे घोरे विष्णुना भाषितं पुरा।
नवमी चैत्रमासस्य पुनर्वसुयुता भवेत्।।३४।।
उपवासः सदा देव अश्वमेधशताधिकः।
बुधवारो भवेत्तत्र अतिगण्डस्तथैव च।।३५।।
पूजयन्ति तथा रामं यान्ति ब्रह्म सनातनम्।
मुमुक्षुणापि कर्तव्यं गृहस्थेनापि वा पुनः।।३६।।
क्षत्रियेण च वैश्येन शूद्रेणापि महामुने।।
चाण्डालेनापि कर्तव्यं व्रतमेतदनुत्तमम्।।३७।।
व्रतं ये नैव कुर्वन्ति मानवाः काममोहिताः।
ते यान्ति नरकं घोरं शतकल्पावधि ध्रुवम्।।।३८।।
भ्रूणहत्या च यत्पापं सुरापानाच्च यद्भवेत्।
तत्पापं कोटिगुणितं जयन्त्यां भोजनाद्भवेत्।।३९।।
गवां वधे च यत्पापं स्त्रीवधे यत्प्रजायते।
कृतघ्नस्यापि यत्पापं संसारे संभवेन्मुने।।४०।।
तत्पापं कोटिगुणितं जयन्त्यां भोजनाद् भवेत्।
काकमांसं गवीमांसं शुनश्चापि नरस्य च।।४१।।
भक्षयित्वा च यत्पापं जयन्तीभोजनाद् भवेत्।
ये कुर्वन्ति नरा नित्यं जयन्तीव्रतमुत्तमम्।।४२।।
कुलकोटिसमायुक्तं यान्ति ब्रह्म सनातनम्।
तस्मात्सर्वप्रयत्नेन व्रतमेतत् समाचरेत्।
अकुर्वन् यान्ति निरयं सत्यं सत्यं वदाम्यहम्।।४३।।
अगस्तिरुवाच
पूजाविधानं वक्ष्यामि कथितं नारदेन यत्।
परिशिष्ट 3 (259)
वाल्मीकाय मुनीन्द्राय द्वारपूजादिकं तथा ।।44।।
आकर्णय मुनिश्रेष्ठ सर्वाभीष्टफलप्रदम्।
श्रीरामद्वारपीठाङ्गपरिवाराँस्तथा स्थितान् ।।45।।
ये प्रोक्तास्तानिह स्तौमि तन्मूलाः सिद्धयो यतः।
वन्दे गणपतिं भानुं तिलकं स्वामिनं शिवम् ।।46।।
क्षेत्रपालं तथा धात्रीं ¹विधातारमनन्तरम्।
गृहाधीशं गृहं गङ्गां यमुनां कुलदेवताम् ।।47।।
प्रचण्डचण्डा च तथा शंखपद्मनिधी अपि।
वास्तोष्पतिं द्वारलक्ष्मीं गुरुं वागधिदेवताम् ।।48।।
एता वै द्वारदेवताः पूज्याः। महामन्त्रककालागुरुद्रव्याभ्यान्नमः।
आधारं शङ्खं कूर्मं शेषं सवासुकिम्।
सुधार्णवं श्वेतद्वीपं कल्पवृक्षं मणिमण्डपम् ।।49।।
अश्वं विमानं सिंहासनम्। आरक्तपद्मं धर्मादींश्चसत्त्वादिकाँश्च।
अर्द्धचन्द्राग्नि-विमलोत्कर्षिणी-क्रिया-योगा-ईशानाः प्रसिद्धसत्त्वा। ईशानायै सर्वात्मने
योगपीठात्मने नमः।
यजामहेत्विष्टौ रामौ ह्रीमानात्मनौ व्यवस्थितौ।
ससीताय रामाय वषट् नेत्रत्रयाय च ।।50।।
रां रामाय नमो राममर्चयेन्मनुना ततः।
ह्रीमाद्यं ससीतायै स्वाहान्तोऽयं षडक्षरः ।।51।।
ऐं मन्त्रस्वरूपाय नमो ज्योतिषेन्द्राय नमः।
आत्मान्तरात्ममनसोत्पत्यै ज्ञानात्मने नमः ।।52।।
आग्नेयात् प्रवृत्त्यै प्रतिष्ठायै विद्यायै ईशान्त्ये वासुदेवाय संकर्षणाय
प्रद्युम्नायानिरुद्धाय शान्त्यै प्रकृत्यै रत्यै प्रीत्यै नमः।
अग्रे हनूमान् जाम्बवान् सुग्रीव विभीषण अङ्गद शत्रुघ्न, धृष्टि जय विजय
राष्ट्र सुराष्ट्रवर्द्धन अशोक सुमन्त द्वारपालाः रामरूपाः।
वज्र शक्ति दण्ड खड्ग पाश गदा त्रिशूल अम्बुज चक्र एतान्यस्त्राणि।
वसिष्ठ वामदेव गौतम नल नील गवय गवाक्ष गन्धमादन शरभ मैन्द
द्विविदादयः।
- विधातारं गृहाधिपम्। गृहं गङ्गाञ्च यमुनां कुलदेवीं प्रचण्डकम्। पद्मानिधिं
वास्तुद्वारं निधिं लक्ष्मीं वाग्देवताम्।
(260) अगस्त्य-संहिता
शङ्ख चक्र गदा पद्म शार्ङ्ग बाण गरुड विष्वक्सेन एते विष्णुरूपाः। सर्वस्मै
विष्णुरूपाय नमः। ज्योतिषे विष्णुरूपिणे।
मनोवाक्कायजनितं कर्म यच्च शुभाशुभम्।
तत्सर्वं भूतये भूयान्नमो रामाय देहिने।। 53
एतद्रहस्यं परमं प्रत्यूषःसु समासतः।
यः पठेद्राममाहात्म्यं विद्यैश्वर्य्यनिधिर्भवेत् ।।54।।
ऋणध्वंसश्च सौभाग्यं दारिद्र्यञ्च निकृन्तयेत्।
उपद्रवाँश्च शमयेत् सर्व्वलोकं वशं नयेत्।।55।।
यः पठेत्प्रातरुत्थाय धर्म्मार्पणधिया सदा।
स याति परमं ब्रह्म पुनरावृत्तिवर्जितम्।।56।।
इत्यगस्त्यसंहितोक्ता रामनवमीकथा समाप्ता।
ॐ यदक्षरेत्यादि।¹
ॐ नमः ससीतारामलक्ष्मणाभ्याम्।
- यदक्षरपदभ्रष्टं मात्राहीनञ्च यद् भवेत्।
तत् सर्वं क्षम्यतां देव कस्य वै निश्चलं मनः।।
परिशिष्ट 4
श्रीमदगस्त्यसंहितान्तर्गत श्रीरामानन्दाचार्यजन्मोत्सवकथा
अथ एकत्रिंशदुत्तरशततमोऽध्यायः
सिंहासने समासीनः सहितः सीतयानुजैः।
अतसीकुसुमश्यामो रामो विजयतेऽनिशम्।।1।।
स्वाश्रमे संश्रितं शिष्यैः प्रातर्हुतहुताशनम्।
बोधयन्तं परं तत्त्वं तमगस्त्यं महामुनिम्।।2।।
कृतक्षणः सुतीक्ष्णस्तमुपागम्य कृताञ्जलिः।
पश्यन्वनानि रम्याणि विचरंश्च महामुनिः।।3।।
भाविनो नॄन् कलौ बुध्वा विषयासक्तचेतसः।
अज्ञानाल्पायुषः श्रीमच्छ्रीशांघ्रिविमुखान्भुवि।।4।।
संसारार्णवसंमग्नान् कृपालुर्मुर्निसत्तमः।
उद्धर्तुकामांस्तांस्तस्मात् पृष्टवान् श्रेय उत्तमम्।।5।।
सुतीक्ष्ण उवाच
भगवन्! मुनिशार्दूल! सर्वज्ञ! कलशोद्भव!
नॄणां श्रेयसि मूढानां श्रेयश्चिन्तय सुव्रत!।।6।।
उपायं वद निश्चित्य तेषां श्रेयो यथा भवेत्।
परोपकारनिरताः साधवो हि कृपालवः।।7।।
अगस्त्य उवाच
कुम्भजोऽथनिशम्येत्थं वाचं मुनिसमीरिताम्।
अल्पाक्षरमनल्पार्थां धर्मसंप्रश्नभूषिताम्।।8।।
(262) अगस्त्य-संहिता
प्रसन्नवदनाम्भोजः प्रशस्य मुनिपुङ्गवः।
तं प्रत्युवाच संप्रीतो वाचं हृदयहर्षणीम् ॥९॥
श्रूयतामितिहासोऽयं कुमारेभ्यो मया श्रुतः।
मुनिवर्यो महाभागो जगतामुपकारकः॥१०॥
हिरण्यगर्भसम्भूतो मतिमान् वाग्विदां वरः।
सर्वलोकजनान् दृष्ट्वा विमूढान् विमुखाञ्छुतेः॥११॥
चिन्तयन् वत तच्छ्रेयो दिव्यं धाम जगाम सः।
कृपालुरच्युतस्याद्यं सिद्धिभिः सिद्धभूषणम् ॥१२॥
तत्र सिंहासनं दिव्यमध्यासीनं जगत्प्रभुम्।
निजैरैरायुधैः सर्वैर्म्मूर्त्तिमद्भिरुपासितम् ॥१३॥
पार्षदप्रवरैः कृत्स्नैर्महार्हाम्बरभूषणैः।
पद्मपत्रविशालाक्षं पद्माया पद्मनेत्रया॥१४॥
उपविष्टं जगद्धेतुं नारदोऽपश्यदच्युतम्।
दिव्याम्बरधरं देवं दिव्यभूषणभूषितम् ॥१५॥
प्रणतस्तं प्रतुष्टाव हृष्टात्मा जगदीश्वरम्।
जगद्योनिरयोनिस्त्वं व्यक्तोऽव्यक्ततरो विभुः॥१६॥
कर्त्रे विश्वस्य संभर्त्रे संहर्त्रे ते नमो नमः।
आदिमध्यान्तहीनाय प्रभवे परमात्मने ॥१७॥
नमस्ते विश्वरूपाय नमस्ते विश्वबन्धवे।
विश्वम्भर! नमस्तेऽस्तु विश्वनाथ! कृपाम्बुधे!॥१८॥
संसारेऽस्मिन् महाघोरे पापाभिरतचेतसाम्।
जन्तूनां का गतिर्देव कर्मणा भ्रमतामिह ॥१९॥
मुक्तिस्तेषां कथं श्रीश! भवेद्धर्मे कथं रतिः।
कृपाकूपार भगवञ्जन्तूनुद्धर माधव॥२०॥
श्रुतिस्मृत्युदिता धर्माः क्लेशसाध्या नृभिः सदा।
अतस्त्वं सुकरोपायं वद त्वद्भक्तिवर्धनम् ॥२१॥
सर्वबन्धविनाशाय मुक्तये प्राणिनां प्रभो!
प्रवक्ता त्वं हि धर्माणामविता जगतामपि॥२२॥
इत्थमाकर्ण्य भगवान् वाचं मुनिसमीरिताम्।
तं प्रत्युवाच संप्रीतः शुचिस्मितमुखाम्बुजः ॥२३॥