अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 306, कुल 337 में से
संदर्भ में पढ़ें(245)
परिशिष्ट 2
'रामतापिनीयोपनिषद्' में उद्धृत रामोपासना की फलश्रुति
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः। A.S.-19.1^(c-d)
वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ।।4।। A.S.-19.2^(a-b)
गाणपत्यादिमन्त्रेषु कोटिकोटिगुणाधिकः। A.S.-19.2^(c-d)
मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ।।5।। A.S.-19.3^(a-b)
षडक्षरोऽयं मन्त्रः स्यात् सर्वाघौघनिवारणः। A.S.-19.3^(c-d)
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ।।6।। A.S.-19.4^(a-b)
कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम्। A.S.-19.4^(c-d)
सर्व दहति निःशेषं तूलराशिमिवानलः ।।7।। A.S.-19.5^(a-b)
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च। A.S.-19.5^(a-b)
स्वर्णस्तेयसुरापानगुरूल्पायुतानि च ।।8।। A.S.-19.6^(c-d)
कोटिकोटिसहस्राणि उपपातकजान्यपि। A.S.-19.7^(a-b)
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ।।9।। A.S.-19.7^(c-d)
भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः। A.S.-19.8^(a-b)
दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ।।10।। A.S.-19.8^(c-d)
ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम्।
कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ।।11।।
ग्राम्यारण्यपशुघ्नत्वं संचितं दुरितं च यत्। A.S.-24.35c-d
मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ।।12।। A.S.-24.37^(a-b)
अभक्ष्यभक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम्। A.S.-24.37^(c-d)
सर्व विलीयते राममन्त्रस्यास्यैव कीर्तनात् ।।13।। A.S.-24.38^(a-b)
श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम्। A.S.-24.38^(c-d)
रत्नादेश्चापहारेण तदप्याशु विनाशयेत् ।।14।। A.S.-24.39^(a-b)
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्विषम्।