अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 309, कुल 337 में से
संदर्भ में पढ़ें(248) अगस्त्य-संहिता
इमे यज्ञोपवीते बृहस्पतिदैवते रां (रामाय नमः।) इदं वस्त्रं बृहस्पति दैवतं
रां (रामाय नमः।)
एतानि गन्धपुष्पधूपदीप्ताम्बूलनैवेद्यानि रां रामाय नमः।
ॐ सीते इहागच्छ इह तिष्ठ। तत्रार्घदानमन्त्रः-
ॐ सीते देवि नमस्तुभ्यं रामचन्द्रप्रिये सदा।
गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।
एषोऽर्घ्यः ॐ सीतायै नमः। एवं पञ्चोपचारैः पूजयेत्।
तथैव कौशल्यां पूजयेत्। कौशल्ये इहागच्छ इह तिष्ठ। अर्घ्यदानमन्त्रः-
ॐ कौशल्ये प्रणमामि त्वां राममातः सुशोभने।
अदिते त्वं गृहाणार्घ्यं वरदा भव सर्वदा।।
एषोऽर्घ्यः ॐ कौशल्यायै नमः। एवं पञ्चोपचारैः पूजयेत्।
ततः ॐ कैकेयि इहागच्छ इह तिष्ठ।
ॐ कैकेयि प्रणमामि त्वां रावणस्यान्तकारिणि।
गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।
एषोऽर्घ्यः ॐ कैकेय्यै नमः। एवं चन्दनादिना पूजयेत्।
ततः सुमित्रापूजा।
ॐ सुमित्रे इहागच्छ इह तिष्ठ।
ॐ सुमित्रे त्वां नमस्यामि शेषमातर्नमोऽस्तु ते।
गृहाणार्घ्यं मया दत्तं वरदा भव सुन्दरि।।
एषोऽर्घ्यः ॐ सुमित्रायै नमः। एवं चन्दनादिना पूजयेत्।
ॐ दशरथ इहागच्छ इह तिष्ठ।
ॐ अजपुत्र महाबाहो श्रीमद्दशरथ प्रभो।
गृहाणार्घ्यं मया दत्तं रामतात नमोऽस्तु ते।।
एषोऽर्घ्यः ॐ दशरथाय नमः। एवं पूजयेत्।
ॐ भरत इहागच्छ इह तिष्ठ।
ॐ दाशरथे त्वां नमस्यामि रामभक्त नृपात्मज।
मया समर्पितं तुभ्यमर्घोऽयं प्रतिगृह्यताम्।।
एषोऽर्घ्यः ॐ भरताय नमः।
ॐ लक्ष्मण इहागच्छ इह तिष्ठ।
ॐ लक्ष्मणत्वं महाबाहो इन्द्रजिद्वधकारक।
गृहाणार्घ्यं मया दत्तं सुमित्रातनय प्रभो।।
एषोऽर्घ्यः ॐ लक्ष्मणाय नमः। एवं पूजयेत्।