अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 905, कुल 1258 में से
संदर्भ में पढ़ें८८६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
गन्धादिविशेषजं सुखं वेदयते तदा कस्य प्रतीकारेषु सुखबुद्धिर्भवति ! अनुत्पन्न-
विनष्टे च तस्मिन् दुःखे सुतरां सुखबुद्धिः स्यात् । ध्यानजे सुखे कः कस्य
प्रतीकार इत्येवमादि ।
भावसञ्चारेऽपि चावस्थान्तरजं सुखमेवोत्पद्यते । यावदसौ तादृशी
कायावस्था नान्तर्धीयते । अन्यथा हि पश्चाद् भूयसी सुखबुद्धिः स्यात् ।
एवं श्रान्तस्येर्यापथविकल्पेषु वेदितव्यम् ।
“अन्ते कुतो दुःखबुद्धिरारम्भो यदि नादितः” इति चेत् ? कायपरिणाम-
विशेषान्मद्यादीनामन्ते माधुर्यशुक्तावत् । तस्मादस्त्येव सुखा वेदनेति सिद्धम् ।
त्रिदुःखतायोगाद् वा सर्वं सास्रवं दुःखमिति ।
यत्तु समुदयसत्यं तदेवोच्यते । इदमुत्सूत्रम्, सूत्रे हि तृष्णैवोक्ता ?
दुःखहेतुर्भवतीति । ध्यानजे च सुखे कस्य प्रतीकार इति । न हि ध्यानेषु दुःख-
मस्तीति । आदिशब्देनेदमपि वक्तव्यम्—यदि दुःखप्रतीकारेषु सुखबुद्धिः स्यात् ।
“रूपं चेन्महानामन्नेकान्तदुःखमभविष्यत्, न सुखं न सुखानुगतम्’ इत्येवमादि
नोक्तं स्यादिति । सुखमेवोत्पद्यत इति । सुखैव सा वेदनोत्पद्यते । न सा दुःखा
वेदना सुखत्वेन कल्पितेति । यावदसौ तादृशी कायावस्थेति । सुखोत्पत्त्यनुकूला ।
अन्यथा हि यद्यवस्थान्तरजं सुखमेव नोत्पद्यते यावदसौ तादृशी कायावस्था
नान्तर्धीयते१ । अन्यथा पश्चाद् भूयसी सुखबुद्धिः स्यात् ।
अन्ते कुत इति विस्तरः । अथ मतम्—पानभोजनाद्यन्ते कुतो दुःखबुद्धिः
स्यात् यदि तस्यादितस्तत्प्रारम्भो नासीदिति । अत्र ब्रूमः— कायपरिणामविशेषात् ।
कायस्य तादृशः परिणामविशेषः पश्चादुत्पद्यते पानाद्यासेवनात् यत्सुखोत्पत्त्य-
वस्थायां दुःखं नोत्पद्यते, अन्ते तूत्पद्यत इति । किमिव ? इत्याह—मद्यादीनामन्ते
माधुर्यशुक्तावदिति । यथा मद्यक्षीरादीनां तादृशः पश्चात्परिणामविशेषो भवति
यत्पूर्वं मधुरतावस्थायां माधुर्यस्याविद्यमाना शुक्तात आम्लता