सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 595, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 595

५७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अथ मतम्—संस्थानपरमाणव एव तथासन्निविष्टा दीर्घादिसंज्ञा¹ भवन्ति
इति ! सोऽयं केवलः पक्षपातः; तेषामसिद्धत्वात् । सिद्धस्वलक्षणानां हि तेषां
सञ्चयो युज्यते । न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति कुत
एषां सञ्चयः !
यत्तर्हि वर्णत्वाभिन्नो² भवति, संस्थानं च भिन्नं दृश्यते मृद्भाजनानाम् !
ननु चोक्तं यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते, यथा च पिपीलिकादीनामभेदे
पङ्क्तिचक्रादीनां भेदः प्रज्ञायते, तथा संस्थानस्यापि !
यत्तर्हि तमसि³ दूराद् वा वर्णमपश्यन्तः स्थाण्वादीनां दैर्ध्यादीन् पश्यन्ति ?
वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति, पङ्क्तिसेनापरिकल्पवत् ।
अथ मतमिति विस्तरः । संस्थानपरमाणव एव तथासन्निविष्टा एकदिङ्-
मुखादिक्रमेण दीर्घादिसंज्ञा भवन्ति । न ह्येतत्स्वभावाः तथासन्निविष्टाः समा-
नास्तां संज्ञामुपलब्धुमर्हन्तीत्यभिप्रायः । न च संस्थानावयवानां वर्णादिवत्
स्वभावः सिद्ध इति । वर्णावयवाः प्रसिद्धस्वभावाः; प्रत्यवयवं नीलादित्वतो
ग्रहणात्, न चैवं संस्थाने परमाणवः प्रत्यवयवं दीर्घादित्वतो गृह्यन्ते । तस्मान्न
प्रसिद्धस्वभावाः । यदि तु नैव ते दीर्घादिस्वभावाः, सन्निवेशविशेषात् तु
दीर्घादिबुद्धिहेतवो भवन्ति । वर्णादिपरमाणव एव सन्निवेशविशेषात्तु दीर्घादि-
बुद्धिहेतवो भवन्तीति किं नेष्यते !
यत्तर्हि वर्णत्वाभिन्न इति । यदि वर्णसन्निवेशमात्रं संस्थानं स्यात्, वर्णभेदे
संस्थानभेदो न स्यात्; मृद्भाजनानां कुण्डादीनाममनर्थान्तराभावात् ।
ननु चोक्तमिति विस्तरः । यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते । एकदिङ्-
मुखे च वर्णं इति विस्तरेण । यथा च पिपीलिकादीनामिति विस्तरः । यथा च
पिपीलिकादय एकरूपा भवन्ति । तेषां च पङ्क्तिरित्यस्मिन् देशेऽन्यादृशी, अन्य-
स्मिन्नन्यादृशी । एवं चक्रादीनां भेद इत्येवमादि । तथा वर्णभेदेऽपि संस्थान-
भेदः स्यात् ।
यत् तर्हि तमसीति विस्तरः । यत् तर्हि तमसि वर्णमपश्यन्तः स्थाणुपुरुष-
हस्त्यादीनामिति दीर्घ-ह्रस्वत्वपरिमण्डलादीनि पश्यन्ति । तत् कथमिति वाक्य-
शेषः । यदि तर्हि वर्णाज्जात्यन्तरसंस्थानं न स्यात् । यथा वर्णं नीलं पीतमिति
वा न पश्यन्ति तथा संस्थानमपि दीर्घह्रस्वमिति न पश्येयुः, पश्यन्ति च
कदाचित् । अतो जात्यन्तरं संस्थानमिति । पङ्क्तिसेनापरिकल्पवदिति । यथा
१-१. ०संज्ञां लभन्त—का० । २. वर्णश्चाभिन्नो—का० । ३. तमपि—का० ।