सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 566, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 566

निर्देशः ] तृतीयं कोशस्थानम् ५४७
कस्मान्नोत्कर्षकाले ? तदा हि दुःसमुद्वेजाः सत्त्वा भवन्ति ।
कस्मान्न शतात् ? तदा हि पञ्च कषाया अभ्युत्सदा भवन्ति । तद्यथा—
आयुष्कषायः, कल्पकषायः, क्लेशकषायः, दृष्टिकषायः, सत्त्वकषायश्च ।
अपकर्षस्याधस्तात् प्रत्यवरा आयुरादयः किट्टभूतत्वात् १ कषाया उच्यन्ते ।
द्वाभ्यां हि जीवितोपकरणविपत्ती यथाक्रमम् । द्वाभ्यां कुशलपक्षविपत्तिः;
कामसुखल्लिकाऽऽत्मक्लमथानुयोगाधिकारात्, गृहिप्रव्रजितपक्षयोर्वा । एकेनात्मभाव-
विपत्तिः; प्रमाणरूपारोग्यबलबुद्धिस्मृतिवीर्यधैर्यभ्रंशात् ॥
अथ प्रत्येकबुद्धानां कस्मिन् काले उत्पादः ?
द्वयोः प्रत्येकबुद्धानाम्,
उत्कर्षेऽपि, अपकर्षेऽपि ।
द्विविधा हि प्रत्येकबुद्धाः—वर्गचारिणः, खड्गविषाणकल्पाश्च ।
अपकर्षस्याधस्तादिति विस्तरः । वर्षशतस्याधस्तात् । पञ्चकषाया अभ्युत्सदा
भवन्ति । अभ्यधिका भवन्तीत्यर्थः । वर्षशतेऽभ्युत्सदाः, न त्वभ्युत्सदा यथा-
धस्तात् । आयुःकषाय इति । किट्टभूतं प्रत्यवरं कषायः, आयुरेव कषाय आयुः-
कषायः । एवं कल्पकषायादयः ।
यथाक्रममिति । जीवितविपत्तिरायुःकषायेण, उपकरणविपत्तिः कल्पकषायेण ।
धान्यपुष्पफलोषधादीन्युपकरणान्यल्प रसवीर्यविपाकप्रभावाणि हि तानि भवन्ति,
नैव वा भवन्ति । द्वाभ्यां कुशलपक्षविपत्तिरिति । क्लेशकषायेण, दृष्टिकषायेण च
कुशलपक्षस्य विपत्तिः । कथम् ? इत्याह—कामसुखल्लिकात्मक्लमथानुयोगाधिकारा-
दिति । कामसुखमेव कामसुखल्लिका, कामसुखलीनतेति वा । कामतृष्णा वा
कामसुखल्लिका, यथा कामसुखे सज्यते । आत्मक्लमथः = आत्मोपतापः ।
आत्मपीडेत्यर्थः । कामसुखल्लिकात्मक्लमथयोरनुयोगः=अनुसेवनम्, तस्याधिकार-
स्तस्मात् । तदुक्तम्—कामसुखल्लिकानुयोगमात्मक्लमथानुयोगं वाधिकृत्यारभ्य
क्लेशदृष्टिकषायाभ्यां कुशलपक्षविपत्तिर्भवतीति । एवं तावदविशेषेण ।
गृहिप्रव्रजितपक्षयोर्वा । गृहिपक्षस्य क्लेशकषायेण कुशलपक्षविपत्तिः, प्रव्र-
जितपक्षस्य दृष्टिकषायेण । यथाक्रमं कामप्रधाना गृहिणः, दृष्टिप्रधाना प्रव्रजिता
इति । एकेनेति । सत्त्वकषायेण ।
द्विविधा हि प्रत्येकबुद्धा इति । यस्माद् वर्गचारिणोऽपि प्रत्येकबुद्धाः
१. किटभूतत्वात्—का० ।