अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 567, कुल 1258 में से
संदर्भ में पढ़ें५४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
तत्र वर्गचारिणः श्रावकपूर्विणः प्रत्येकजिना उच्यन्ते । पृथग्जनपूर्विणोऽपि
सन्तीत्यपरे । येऽन्यत्रोत्पादितनिर्वेधभागीया इह स्वयं मार्गमभिसम्बुध्यन्ते ।
तथा हि पूर्वयोगं पठन्ति—“पर्वते किल पञ्चशतानि तापसानां कष्टानि तपांसि
तप्यन्ते स्म, यावत् प्रत्येकबुद्धसहोषितेन मर्कटेनागम्य तदीर्यापथसन्दर्शनात्
प्रत्येकबोधिमभिसम्बुद्धाः” ( ) इति । न चार्याः सन्तः कष्टानि
तपांसि तप्येरन् !
खड्गविषाणकल्पाः पुनरसंसृष्टविहारिणः१ ।
तेषां प्रत्येकबुद्धानाम्—
खड्गः कल्पशतान्वयः ॥ ९४ ॥
महाकल्पानां शतं बोधिसम्भारेषु चरितः खड्गं विषाणकल्पो भवति ।
विनोपदेशेनात्मानमेकं प्रतिबुद्धा इति प्रत्येकबुद्धाः । ते ह्येकमात्मानं दमयन्ति,
नान्यान् ।
किं पुनरत्र कारणम् ? न हि तावदशक्ता धर्मं देशयितुम्; प्रतिसंवित्प्राप्त-
श्रावकपूर्विणो भवन्ति न केवलं खड्गविषाणकल्पाः। तस्मादुत्कर्षेऽपि तेषामुत्पत्तिर्न
विरुद्धयते । ये ह्युत्पादितस्रोतआपत्तिफलसकृदागामिफला अन्तर्हिते बुद्धशासने
स्वयमर्हत्त्वमधिगच्छन्ति, ते वर्गचारिणः । ते च बुद्धोत्पादकाल एव प्राकृत-
संवेगत्वान्न पुनः संवेजनीया इति । -तदीर्यापथसन्दर्शनादिति । प्रत्येकबुद्धेर्यापथ-
सन्दर्शनात् । पर्यङ्कबद्धसमाधिरूपसन्दर्शनात् । न चार्याः सन्तः कष्टानि तपांसि
तप्येरन्निति । सत्यदर्शनकाल एव शीलव्रतपरामर्शदृष्टेः प्रहीणत्वात्, शीलव्रत-
परामर्शदृष्टिपूर्वकत्वाच्च कष्टतपःक्रियायाः ।
खड्गविषाणकल्पा इति । यथा खड्गविषाणा अद्वितीया भवन्ति, एवं ते
गृहस्थप्रव्रजितैरन्यैश्च प्रत्येकबुद्धैरसंसृष्टविहारिण इति । खड्गविषाणकल्पा
इत्युच्यन्ते ।
“कल्पशतान्वयः” इति । कल्पशतकृतबोधिहेतुरित्यर्थः । अत एव व्या-
चष्टे—महाकल्पानां शतं बोधिसम्भारेषु शीलसमाधिप्रज्ञालक्षणेषु चरितः कृत-
प्रयोग इति ।
१. पुनरेकविहारिणः—का० ।