अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 565, कुल 1258 में से
संदर्भ में पढ़ें५४६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
कारुणिकैस्तु श्रद्धितमेवैतत् । यथा चेह केचिदभ्यस्तनैर्घृण्या असत्यपि स्वार्थे
परव्यसनामिरता उपलभ्यन्ते । तथा पुनरभ्यस्तकारुण्या असत्यपि स्वार्थे पर-
हितक्रियाभिरामाः सन्तीति सम्भाव्यम् । यथैव चाभ्यासवशादनात्मभूतेषु संस्कारेषु
संस्कृतलक्षणानभिज्ञा आत्मस्नेहं निवेश्य तद्धेतोर्दुःखान्युद्वहन्ति, एवं पुनरभ्यास-
वशादात्मस्नेहं तेभ्यो निवर्त्य परेष्वपेक्षां वर्धयित्वा तद्धेतोर्दुःखान्युद्वहन्तीति
सम्भाव्यम् ।
गोत्रान्तरमेव हि तत् तथाजातीयं निर्वर्तते यत् परेषां दुःखेन दुःखायते
सुखेन सुखायते, नात्मन इति । न ते पुनः स्वार्थमन्यं पश्यन्ति । आह चात्र—
“हीनः प्रार्थयते स्वसन्ततिगतं यैस्तैरुपायैः सुखम्,
मध्यो दुःखनिवृत्तिमेव न सुखं दुःखास्पदं तद् यतः ।
श्रेष्ठः प्रार्थयते स्वसन्ततिगतैर्दुःखैः परेषां सुखम्,
दुःखात्यन्तनिवृत्तिमेव च यतस्तद्दुःखदुःख्येव सः ॥” ( )
किं पुनरुत्कर्षा बुद्धा उत्पद्यन्ते ? आहोस्विदपकर्षाः ?
अपकर्षे तु¹ शताद् यावत् तदुद्भवः ।
अशीतिवर्षशतायुषि प्रजायामपकर्षे आरब्धे यावद्वर्षशतायुषो मनुष्या
भवन्ति, एतस्मिन्नन्तरे बुद्धा उत्पद्यन्ते ।
तद्धेतोरिति । आत्मस्नेहहेतोः । आत्मस्नेहं तेभ्य इति विस्तरः । आत्म-
स्नेहं तेभ्यः स्वासान्तानिकेभ्यः संस्कारेभ्यो निवर्त्य² अपेक्षां करुणालक्षणां वर्ध-
यित्वा तद्धेतोरपेक्षाहेतोर्दुःखान्युद्वहन्तीति सम्भाव्यं प्रतिपत्तव्यम् ।
मध्यो दुःखनिवृत्तिमेवेति । प्रत्येकबुद्धः श्रावको दुःखनिवृत्तिमेव मोक्षमेव
प्रार्थयते, न सुखं सांसारिकम् । कुतः ? दुःखास्पदं तद्यतः । यस्मात् तत्
सांसारिकं सुखं दुःखस्थानं भवति । श्रेष्ठो बोधिसत्त्वः स्वसन्ततिगतैर्दुःखैः
परेषां सुखमाभ्युदयिकं दुःखात्यन्तनिवृत्तिमेव च निःश्रेयसस्वभावां परेषां प्रार्थयते ।
अथवा—परेषां सुखमाभ्युदयिकं निःश्रेयसिकं प्रार्थयते । दुःखात्यन्तनिवृत्तिमेव च
बुद्धलक्षणामात्मीयां परहितक्रियोपायभूतां प्रार्थयते । कस्माद् ? इत्याह—
यतस्तद्दुःखदुःख्येव स इति । तस्मात् परदुःखैः स बोधिसत्त्वो दुःखी भवति ।
अत एव सुखं द्विप्रकारं प्रार्थयत इति ।
१. हि—का० । २. निवत्यं—मुद्रितः पाठः ।