अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 439, कुल 1258 में से
संदर्भ में पढ़ें४१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
यत्तर्हि सूत्र उक्तम्—"अथ च पुनर्दूषी मारः स्वशरीरेणावीचौ महा-
नरके प्रपतितः" ( ) इति, तत् कथमिति ? स हि
जीवन्नेव नारकीभिर्ज्वालाभिरालिङ्गितत्वात्¹ कालं कृत्वाऽन्तराभवेनावीचिं प्राप्त
इत्ययं तत्राभिप्रायः । अत्युदीर्णपरिपूर्णानि हि कर्माणि कायस्य निक्षेपं न
प्रतीक्षन्ते। अतोऽस्य दृष्टधर्मवेदनीयं कर्म पूर्वं विपक्वम्, पश्चादुपपद्यवेदनीयमिति।
इदमिदानीं कथं नीयते—"पञ्चानन्तर्याणि कर्माणि यानि कृत्वोपचित्य
समनन्तरं नरकेषूपपद्यते" ( ) इति ? अन्यां गतिमगत्त्वे-
त्यभिप्रायः । उपपद्यवेदनीयत्वं तत्र कर्मणो द्योतितम् । अथ यथारुतं कल्प्यते² ?
पञ्चैव कृत्वा नैकमिति एतत्³ प्राप्नोति, कियानन्तरं च । न कालान्तरं
जीवित्वा को वाऽन्तराभवस्योपपद्यमानत्वं नेच्छति । अन्तराभवेनैव ह्यसौ
मरणान्तरं नरकेषूपपद्यते; अभिमुखत्वात् । न तु⁴ ब्रूमः—उपपन्नो भवतीति ।
दूषीमार इति। क्रकुच्छन्दस्य तथागतस्य विदुरं नाम श्रावकं दूषी नाम
मारस्तदानीं शिरसि मुष्टिनाऽभिघ्नन् तेनाङ्गीकृतस्तल्लक्षण एव च स्वशरीरेणा-
वीचौ महानरके प्रपतित इति। स्वशरीरेणेवेति वचनान्नास्त्यन्तराभव
इत्यभिप्रायः। स हि जीवन्नेव नारकीभिर्ज्वालाभिरिति। जीवन्नेवासौ मारो
नरकोत्थिताभिरग्निज्वालाभिरालिङ्गितत्वात् स्वशरीरावस्थादुःखोत्पत्तेः स्व-
शरीरेणैव प्रपतित इत्युक्तः, न तु कालमकृत्वा अन्तराभवावस्थां नरकोपपत्ति-
भवावस्थां च न गतवानित्यभिप्रायः। अत्युदीर्णपरिपूर्णानीति। क्षेत्राशयवि-
क्षेपयोगादत्युदीर्णानि, उपचितत्वात् परिपूर्णानि।
समनन्तरं नरकेषूपपद्यत इति। समनन्तरवचनान्नास्त्यन्तराभव इत्यभि-
प्रायः। अन्यां गतिमगत्त्वेति। उपपत्त्यन्तरप्रतिषेधपरमेतद्वाक्यम्, नान्तराभव-
प्रतिषेधपरमित्यभिप्रायः। पञ्चैवैति। यदि यथारुतं कल्प्यते, पञ्चभिरेवानन्तर्यैः
कृतैः, न त्वेकेन द्वाभ्यां वा नरकगमनं भवतीत्येतत् प्राप्नोति। पञ्चेति रुतात्
क्रियानन्तरं चानन्तर्यक्रियानन्तरं च नरकेषूपपन्न इति प्राप्नोति। यानि कृत्वोप-
चित्य समनन्तरं नरकेषूपपद्यत इति रुतान्न कालान्तरं जीवित्वा को वान्तराभव-
स्योपपद्यमानत्वं नेच्छतीति। विप्रकृतावस्थवचनादुपपत्त्यभिमुखो ह्युपपद्यमानः
इत्यभिप्रायः। न तु ब्रूम उपपन्नो भवतीति। न तूपपद्यत इत्येतत् पदमुपपन्ना-
र्थमिति ब्रूमः। तस्माददोष एषः।
१. ०रालिङ्गितः—का० । २. कल्पयते—जा० ।
३. का० पुस्तके नास्ति । ४. च—का० ।