सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 438, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 438

निर्देशः ] तृतीयं कोशस्थानम् ४१७
१. "इह भिक्षुर्यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः सर्वशो रूपसंज्ञानां समतिक्रमात्, प्रति-
घसंज्ञानामस्तङ्गमात्, नानात्वसंज्ञानाममनसिकारात्, अनन्तमाकाशमित्याका-
शानन्त्यायतनमुपसम्पद्य विहरति । स न हैव तानाकारानिति पूर्ववत्, केवलं तु
रूपगतमिति न पठितव्यम्; तत्र रूपाभावात्, यावन्निरोधो निर्वाणमिति (१) ।
एतदेव सूत्रमुक्तवायं विशेषः- "तस्यैवं जानत इति पूर्ववद् यावन्नापर-
मस्माद्भवं प्रजानामीति (२) । एतदेवोक्त्वा- "नो विमुच्यते, अपि तु तेनैव
धर्मच्छन्देन यावत्तयैव धर्माभिरत्योपपद्यपरिनिर्वायी भवति (४) । न हैवोपपद्य-
परिनिर्वायी भवति, तेनैव यावदनभिसंस्कारपरिनिर्वायी भवति (५) । न हैवा-
नभिसंस्कारपरिनिर्वायी भवति, सर्वमुक्त्वा यावदूर्ध्वस्रोता न भवत्यपि तु
तेनैव पूर्ववत्, यावत्तयैव धर्माभिरत्या आकाशानन्त्यायतनोषगानां देवानां
सभागतायामुपपद्यते (६-७) ।
२. "इह भिक्षुर्यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः सर्वश आकाशानन्त्यायतनं समति-
क्रम्यानन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । स न हैव
तानाकारानित्याकाशानन्त्यायतनवत् सप्तसूत्राणि वक्तव्यानि । केवलं तु
विज्ञानानन्त्यायतनोषगानां देवानां सभागतायामुपपद्यत इति विशेषः (१-७) ।
३. "पुनरपरमिह भिक्षुर्यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः सर्वशो विज्ञानानन्त्यायतनं
समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसम्पद्य विहरति, स न हैव
तानाकारानिति पूर्ववत् सप्तसूत्राणि (१-७) ।
१. "पुनरपरमिह भिक्षुर्यैरिति यावत् सर्वश आकिञ्चन्यायतनं समतिक्रम्य
नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरति" । पूर्ववत् सर्वाणि सूत्राणि वक्तव्या-
न्यूर्ध्वस्रोतसंज्ञातमेकमपनीय (१-६) ।
तदेवं चतुर्भिर्ध्यानैरमृतधातुचित्तोपसंहारचित्तविमुक्त्यन्तरोपपद्यानभि-
संस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनत्र्युपपत्तिस्थानोपपत्तिस्वभावाश्चतस्रः
सूत्रार्थदर्शिका उक्ताः ।
त्रिभिस्त्वाद्यैरारूप्यैरमृतधातुचित्तोपसंहारचित्तविमुक्त्युपपद्यानभिसंस्कार-
साभिसंस्कारपरिनिर्वाणोर्ध्वगमनोपपत्तिस्थानोपपत्तिस्वभावास्तिस्रः सूत्रार्थ-
सप्तिकाः ।
नैवसंज्ञानासंज्ञायतनेनोर्ध्वगमनं परिहाय षट्‌किका चोक्ताः ।
अतो योऽसावन्तरापरिनिर्वायी नासावायुष्प्रमाणान्तरापरिनिर्वायीति
युज्यते वक्तुम् । आरूप्येष्वपि ह्यान्तरमरणसम्भवः; "कुरुवर्ज्योऽन्तरामृत्युः"
( अभि० को० ३.८५) इति वचनात् ।
तस्मात् आगमतोऽपि सिद्धोऽन्तराभवः, न केवलं युक्तित इत्यपि-शब्दः ।