अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 429, कुल 1258 में से
संदर्भ में पढ़ेंसहदर्शनं न भवतीति न तत्र रूपान्तरोत्पत्तियुक्ता ।
छायातपयोश्च द्वयोः सहैकत्रभावो न दृष्टः । उपलभ्यते च छायास्थ
आदर्शे सूर्यस्य प्रतिबिम्बकमिति न युक्तोऽस्य तत्र प्रादुर्भावः ।
अथ वा—सहैकत्र द्वयाभावात् इति । कतमस्य द्वयस्य ? आदर्शभूतस्य,
इन्दुप्रतिबिम्बकस्य च । अन्यत्रैव हि देशे आदर्शभूतं भवति, अन्यत्रैवान्तर्गतं
चन्द्रप्रतिबिम्बकं दृश्यते, कूप इवोदकम् । तच्च तत्रोपपद्यमानं नान्यत्रोपलभ्यते ।
अतो नास्त्येव तत् किञ्चित् । सामग्र्यास्तु स तस्याः १ प्रभावो यत् तथा दर्शनं
भवति । अचिन्त्यो हि धर्माणां शक्तिभेदः । एवं तावदसिद्धत्वात् ।
उत्तरदिग्व्यवस्थितेदक्षिणतटस्थः प्रतिबिम्बकमुपलभ्यते,
रप्युत्तरतटस्थः प्रतिबिम्बकमुपलभ्यते । एवमन्योन्यमुपलभ्यते, न तूभयं युग-
पदुपलभ्यत इति वाक्यार्थः । न हि स्वतटाथःप्रतिबिम्बकमेकंतटस्थैः सम-
न्ततोऽपि वापीजलं पश्यद्भिरुपलभ्यते । ततः किमिति चेद् ? अत आह—न
त्वेकत्र रूपे घटे पटे वा द्वयोः पश्यतोः पुरुषयोः सहदर्शनं न भवति । भवेत्ये-
वेत्यर्थः । इह तु न भवति सहदर्शनमित्यतो न तत्र रूपान्तरोत्पत्तियुक्तेति ।
अथवा अस्यायमर्थः—छायातपयोश्च द्वयोः सहैकत्र भावो न दृष्टो लोके ।
यत्र छाया भवति मण्डपेऽन्यत्र वा, न तत्रातपः; यत्र वातपो भवत्यभ्यवकाशे,
न तत्र छाया । उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिबिम्बकमिति । कथम् ?
तटाके सूर्यप्रतिबिम्बकमुत्पद्यते, तत्तटाकतटस्थे च छायावति मण्डपे आदर्शः
स्थाप्यते । तत्रादर्शके तटाकस्थस्य सूर्यप्रतिबिम्बकस्यापरं प्रतिबिम्बकमुत्पद्यते,
तटाके च यत् सूर्यप्रतिबिम्बकं तत् सूर्यसमुत्थमित्यवश्यमातपस्वभावमित्य-
भ्युपगन्तव्यम् । यच्चापरमादर्शे प्रतिबिम्बकं तदातपस्वभावप्रतिबिम्ब-
कसमुत्थमित्येतदप्यवश्यं आतपस्वभावमभ्युपगन्तव्यम् । एवं सति छाया-
तपयोः सहस्वभावः स्यात् । न चान्यत्र लोके छायातपयोः 'सहभाव इति ।
न युक्तोऽस्य प्रतिबिम्बकस्य तत्र प्रादुर्भावः । कूप इवोदकमिति । यथा कूपे
दूरान्तर्गतमुदकं दृश्यते, तथा चन्द्रप्रतिबिम्बकमप्यत्रेवान्तर्गतं दृश्यते । न
चादर्शस्तावत् वस्तुभूतोऽस्ति । तच्च तत्रोत्पद्यमानम्, तच्च प्रतिबिम्बकमादर्श
एवोत्पद्यमानम् । नान्यत्राधस्तादुपलभ्यते । उपलभ्यते च, अतो नास्त्येव तत्
किञ्चित् । सामग्र्यास्तु । बिम्बादर्शादिलक्षणायाः । स तस्याः प्रभावो यत्तथा
दर्शनं भवति । अचिन्त्यो हि धर्माणां शक्तिभेदः । अयसोऽयस्कान्ता।
१. तस्यास्तादृशः—का० ।