अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 428, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ४७७
सिद्धावपि च सत्यामसाम्यादनिदर्शनं भवति ॥ ११ ॥
कथं तावदसिद्धम् ?
सहैकत्र द्वयाभावात्,
तत्रैव हि देशे आदर्शरूपं दृश्यते प्रतिबिम्बकं¹ च। न चैकत्र देशे
रूपद्वयस्यास्ति सहभावः, आश्रयभूतभेदात् ।
तथा दिग्भेदव्यवस्थितैरेकस्मिन्² वाप्यम्बुदेशे स्वाभिमुखदेशस्थितानां³
रूपाणामन्योऽन्यं प्रतिबिम्बकमूपलभ्यते, न त्वेकत्र रूपे द्वयोः पश्यतोः
दर्शयति। तस्मान्नानेकान्तिकतास्ति । न चैतत् प्रतिसाधनं साध्विति।
सिद्धावपि च सत्याम् असाम्यादनिदर्शनमिति । प्रतिबिम्बस्य द्रव्यसत्त्वेन
सिद्धावपि सत्यामसाम्याद् दार्ष्टान्तिकेन न निदर्शनमनुदाहरणं प्रतिबिम्बक-
मिति ॥ ११ ॥
कथं तावदसिद्धमिति । तावच्छब्दः क्रमे ।
असिद्धतायुक्तिं तावत् दर्शयन्नाह—"सहैकत्र द्वयाभावात्" इति विस्तरः।
तत्रैव हि आदर्शदेशे आदर्शरूपं दृश्यते पार्श्वस्थितेन, न प्रतिबिम्बकम् । प्रति-
बिम्बकं च तत्रैव दृश्यतेऽभिमुखावस्थितेन, नादर्शरूपम् । न चैकत्र देशे
उपादाय रूपद्वयस्यास्ति सहभावः । किं कारणम् ? आश्रयभूतभेदात् । आश्रय-
भूतानि हि तयोर्भिन्नानीति। नास्यादर्शरूपाश्रयभूतेरवष्टब्धे देशे प्रतिबिम्बक-
रूपाश्रयभूतानां तत्रावकाशः । अतो नोपादायरूपद्वयस्यास्ति सम्भवः। तदेवं
युगपद्विज्ञानद्वयस्याभावात्, उपादायरूपद्वयस्य चैकत्र सहभावाभावात्, न
तत् किञ्चिदस्तीति दर्शयति। यत्रैव हि देशे आदर्शरूपं दृश्यत इति बिम्बकं
च तत्रैव, न त्वन्यत्र । को दोषः ? इत्याह-न चैकत्र रूपद्वयस्यास्ति सहभाव इति
पूर्ववद् वाच्यम् ।
अथवा सहैकत्र द्वयाभावादित्यस्य सूत्रस्यायमर्थः—एकत्र रूपे पुरुषद्वयस्य
पश्यत एवाभावात्। सहदर्शनस्य प्रतिबिम्बमसिद्धमिति वाक्याध्याहारः ।
कथम् ? इत्याह-दिग्भेदव्यवस्थितैः पुरुषैरेकउत्तरदिग्व्यवस्थितैः, इतरे-
दक्षिणदिग्व्यवस्थितैः। एकस्मिन् वाप्यम्बुदेशे एकस्मिंस्तटाकजलदेशे, स्वाभिमुख-
देशस्थितानां रूपाणाम् । दक्षिणतटोर्ध्वस्थितानि रूपाण्युत्तरदिग्व्यवस्थित-
पुरुषस्याभिमुखस्थानि, उत्तरतटोर्ध्वस्थितान्यपि रूपाणि दक्षिणदिग्व्यवस्थितपुरु-
षस्याभिमुखस्थानि, तेषामुभयेषाम् । किम् ? प्रतिबिम्बकमन्योन्यमुपलभ्यते ।
१. प्रतिबिम्बं—का० । २. ०व्यवस्थितेरे०—का० ।
३. ०देशस्थानां—का० ।