अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 210, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् १९१
प्रज्ञा च महाभूमिकेति नासौ कुशलमहाभूमिक एवोच्यते । अविहिंसा
अविहेठना । वीर्यं चेतसोऽभ्युत्साह ॥ २५ ॥
उक्ताः कुशलमहाभूमिकाः ॥
महती भूमिर्महाभूमिः । क्लेशा महाभूमिरेषा त इमे क्लेशमहाभूमिका ये
धर्माः सदैव क्लिष्टे चेतसि भवन्ति । के पुनस्ते सदैव क्लिष्टे चेतसि भवन्ति ?
मोहः प्रमादः कौशीद्यमाश्रद्धयं स्त्यानमुद्धवः ।
क्लिष्टे सदैव
तत्र मोहो नामाविद्या, अज्ञानमसम्प्रज्ञानम् । प्रमादः कुशलानां धर्मा-
णामभावनाऽप्रमादभावनाविपक्षो धर्मः। कौशीद्यं चेतसो नाभ्युत्साहो वीर्यविपक्षः ।
आश्रद्धयं चेतसोऽप्रसादः श्रद्धाविपक्षः । स्त्यानं कतमत् ? या कायगुरुता,
चित्तगुरुता, कायाकर्मण्यता, चित्ताकर्मण्यता । "कायिकं स्त्यानं चैतसिकं स्त्यानम्"
इत्युक्तम