अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 211, कुल 1258 में से
संदर्भ में पढ़ें१९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते—“आश्रद्ध्यं कौशीद्यं
मुषितस्मृतिता चेतसो विक्षेपः अविद्या असम्प्रजन्यमयोनिशोमनस्कारो मिथ्याधि-
मोक्ष औद्धत्यं प्रमादश्च” ( ) इति ? प्राप्तिज्ञो देवानां प्रियः,
न त्विष्टिज्ञः । का पुनरेत्रेष्टिः ? मुषितस्मृतिविक्षेपासम्प्रजन्यायोनिशोमनसिकार-
मिथ्याधिमोक्षा महाभूमिकत्वात् न क्लेशमहाभूमिका एवावधार्यन्ते । तथैवामोहः
कुशलमहाभूमिको नावधार्यते, प्रज्ञास्वभावत्वात् । स्मृतिरेव हि क्लिष्टा मुषित-
स्मृतिता । समाधिरेव क्लिष्टो विक्षेप इत्येवमादि ।
अत एवोच्यते —“ये महाभूमिकाः क्लेशमहाभूमिका अपि ते” (
) इति । चतुष्कोटिकः । प्रथमा कोटिः—वेदना चेतना संज्ञा
च्छन्दः स्पर्शश्च । द्वितीया —आश्रद्ध्यं कौशीद्यमविद्या औद्धत्यं प्रमादश्च ।
तृतीया—स्मृत्यादयः¹ पञ्च क्लिष्टा यथोक्ताः । चतुर्थ्येतानाकारान् स्थापयित्वेति ।
न चात्र स्त्यानं पठ्यते इत्यभिधर्मे । प्राप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञ
इति । पाठप्रामाण्यमात्रेण दश क्लेशमहाभूमिकाः प्राप्ता इत्येतामेव प्राप्तिं
जानीते देवानां प्रियः, न त्वाचार्याणामिष्टिमिच्छां जानीते । कोऽयं देवानां
प्रियो नाम ? 'ऋजुकजातीयो देवानां प्रियः' इत्येके व्याचक्षते, अशठो हि
देवानां प्रियो भवति, मूर्खो देवानां प्रिय इत्यपरे । “यो हीश्वराणामिष्ट स
न ताडनेन शिक्ष्यते” इति मूर्खो भवतीति । यथैवामोह इति । यथैवामोहः
कुशलमूलं प्रज्ञास्वभावत्वान्महाभूमिक इति व्यवस्थापितो न कुशलमहाभूमिक
एवेत्यवधार्यते, ततश्च कुशलमहाभूमिकेषु न पठितः । तथा मुषितस्मृत्यादयोऽपि
पञ्चमहाभूमिकत्वान्न क्लेशमहाभूमिका एवेत्यवधार्यन्ते । ततश्च इमे न क्लेश-
महाभूमिकमध्ये पठ्यन्ते । कथम् ? इत्याह--स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता,
समाधिरेव क्लिष्टो विक्षेप इत्येवमादीनि । आदिशब्देन प्रज्ञैव क्लिष्टा असम्प्रज-
न्यम् । मनस्कार एव क्लिष्टोऽयोनिशोमनस्कार , अधिमुक्तिरेव क्लिष्टा
मिथ्याधिमोक्ष इति दर्शयति ।
अत एवोच्यत इति विस्तरः । यत एवं स्मृत्यादयो मुषितस्मृतितादयो
व्यवस्थाप्यन्ते नैतद्व्यतिरिक्ताः । अत एवोच्यते—चतुष्कोटिक इति । ये महा-
भूमिकाः क्लेशभूमिका अपि त इति काका पृच्छति । चतुष्कोटिकाः—स्युर्महा-
भूमिकाः न क्लेशमहाभूमिकाः, स्युः क्लेशमहाभूमिका न महाभूमिकाः, स्युर्महा-
भूमिकाश्च क्लेशमहाभूमिकाश्च, स्युर्नैव महाभूमिका न क्लेशमहाभूमिकाः ।
१ मुषितस्मृत्यादय —का० ।