अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 209, कुल 1258 में से
संदर्भ में पढ़ेंलभते । एवं कायप्रश्रब्धिरपि बोध्यङ्गानुगुण्याद् बोध्यङ्गशब्दं लभते ।
उपेक्षा चित्तसमता चित्तानाभोगता । कथमिदानीमेतद्योक्ष्यते—तत्रैव
चित्ते आभोगात्मको मनस्कारोऽनाभोगात्मिका चोपेक्षा इति ? ननु चोक्तम्—
“दुर्ज्ञानं एषां विशेष” ( ) इति ? अस्ति हि नाम दुर्ज्ञानमपि
ज्ञायते । इदं तु खल्वतिदुर्ज्ञानं यद् विरोधेऽप्यविरोध इति । अन्यत्राभोगः,
अन्यत्रानाभोगः—इति कोऽत्र विरोधः ? न तर्हीदानीमेकालम्बनाः सर्वे सम्प्रयुक्ताः
प्राप्नुवन्ति । एवञ्जातीयकमन्यान्यद्प्यायास्यतीति यस्तस्य नयः सोऽन्यापि
वेदितव्यः ।
ह्रीरपत्रप्यं च पश्चाद् वक्ष्यते । मूलद्वयं द्वे कुशलमूले अलोभाद्वेषौ ।
अमोहोऽप्यस्ति, स तु प्रज्ञात्मकः ।
वितर्कवीर्यस्वभावत्वात् तौ प्रज्ञास्वभावौ । यदा च त्रिस्कन्धो मार्गः क्रियते—
शीलस्कन्धः, समाधिस्कन्धः, प्रज्ञास्कन्ध इति । तत्र प्रज्ञास्कन्धनिर्देशे उक्तम्—
“प्रज्ञास्कन्धः कतमः ? सम्यग्दृष्टिः, सम्यक्सङ्कल्पः, सम्यग्व्यायामः” इति ।
उपेक्षा चित्तसमतेति । यद्योगाच्चित्तं सममनाभोगं वर्तते, सोपेक्षा संस्कारो-
पेक्षा नाम । त्रिविधा उपेक्षा—वेदनोपेक्षा, संस्कारोपेक्षा, अप्रमाणोपेक्षा चेति ।
ननु चोक्तं दुर्ज्ञानं एषां विशेष इति । “सूक्ष्मो हि चित्तचैत्तानां विशेषः, स
एष दुःपरिच्छेदः प्रवाहेष्वपि¹ तावद्” इत्यादिवचनाद् दुःखेने ज्ञायते दुर्ज्ञानः ।
अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते । यदविरुद्धमेकस्मिन्नक्षणे धर्मान्तरेण
स्पर्शादिना । इदं तु खल्वतिदुर्ज्ञानं यद्विरोधेऽप्यविरोध इति । आभोगाना-
भोगयोरेकस्मिंश्चित्तक्षणेऽविरोधो व्यवस्थाप्यत इति वाक्यशेषः । न हि
विरुद्धयोः सुखदुःखयोरेकस्मिंश्चित्तक्षणे भावो दृष्ट इति । अन्यत्राभोग इति ।
अन्यनालम्बने आभोग अन्यत्रानाभोग इत्यविरोधः । एवञ्जातीयकमन्यान्य
दप्यायास्यतीति । विरोधजातीयं यथा वितर्कविचारौ । तयोर्हि लक्षणम्—
[L2