अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 208, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् १८७
इमे किल दश धर्माः सर्वत्र चित्तक्षणे समग्रा भवन्ति । तत्र वेदना
त्रिविधोऽनुभवः—सुखः, दुःखः, अदुःखासुखश्च । चेतना चित्ताभिसंस्कारो
मनस्कर्म । संज्ञा संज्ञानं विषयनिमित्तोद्ग्रहः । छन्दः कर्तृकामता । स्पर्श
इन्द्रियविषयविज्ञानसंनिपातजा स्पृष्टिः । मतिः प्रज्ञा धर्मप्रविचयः । स्मृति-
रालम्बनासम्प्रमोष । मनस्कारश्चेतस आभोग । अधिमोक्षोऽधिमुक्तिः ।
समाधिश्चित्तस्यैकाग्रता ।
सूक्ष्मो हि चित्तचैत्ताना विशेषः । स एष¹ दुःपरिच्छेदः प्रबन्धेष्वापि²
| इमे किलेति । किलशब्दः परमतद्योतने । स्वमतं तु छन्दादयः सर्वचेतसि
| न भवन्ति । तथा ह्यनेनैवाचार्येण पञ्चस्कन्धके लिखितम्—“छन्दः कतमः ?
अभिप्रेते वस्तुन्यभिलाषः । अधिमोक्ष कतम ?