अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
DevanagariSanskritpublished1,258 पृष्ठ
पृष्ठ 145, कुल 1258 में से
संदर्भ में पढ़ेंपृष्ठ 145१२६ भाष्यस्फुटार्थाम्सहितेऽभिधर्मकोशे [ धातु-
१२६ भाष्यस्फुटार्थाम्सहितेऽभिधर्मकोशे [ धातु-
किं पुन: कारणमुभयाधीनाया विज्ञानोत्पत्तौ चक्षुरादय एवाश्रया उच्यन्ते,
न रूपादयः ?
तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः
धातव इत्यधिकृतं । चक्षुरादीना हि विकारेण तद्विज्ञानानां विकारो भवति,
अनुग्रहोपघातपटुमन्दतानुविधानात्, न तु रूपादीना विकारेण तद्विकारः ।
तस्मात् साधीय - - तदधीनत्वात् न एवाश्रया , न रूपादयः ।
किं पुनः कारणम् रूपादयश्च तैर्विज्ञायन्ते चक्षुर्विज्ञानं चोच्यते
यावन्मनोविज्ञानम्, न पुन रूपविज्ञानं यावद्धर्मविज्ञानमिति ? य एते चक्षुरादय
आश्रयाः, एषाम्—
प्रत्ययभावेन, नाश्रयभावेन । समनन्तरातीतश्चैतसिको धर्मधातु., अचक्षुराद्या-
श्रयपटुस्वभावत्वात् ॥ ४४ ॥
[L1